________________
विशेषाव ० कोट्याचार्य
वृत्तौ
॥६८५॥
'पिय' इत्यादि । प्रियदर्शनाऽपि पत्युरनुरागतस्तद्दर्शनप्रवीणा (पन्ना) सती ढङ्केन बोध्यमाना ढङ्कमुक्तवती - 'सावये' त्यादि, स्फुटार्था । अतस्तत्सिद्धान्तं स्मारयति ढङ्कः-'दङ्क' मित्यादि । आये ! यदि दह्यमानं न दग्धं, यदि क्रियाकालनिष्ठाकालयोरभेदो नेष्यते, ततः 'काले' चि ततो दाहक्रियाकाले 'विगते' अतिक्रान्ते 'अनागते वा' अप्राप्ते वा 'का शङ्का ?" किंनिमित्तोऽयमुपालम्भः १, न किंनिमित्तोऽपीत्यर्थः, अतीतानागतयोरसच्चाद्, अत एवाह - 'तदभावतः' अतीतानागतदाह क्रिया कालाभावात् सङ्घाटी कस्मिन्नेव काले मया दग्धा ? एतदुक्तं भवति - भगवद्वचनं वा प्रमाणीकर्त्तव्यं, समस्तसंघाटीदाहोत्तरकालं वोपालम्भो मां देयः । ' अहवा' इत्यादि । अथ चेदार्याया न दह्यमानं दग्धं, किं तर्हि १, दाहक्रियापरिसमाप्तौ दग्धं, त्रिभुवनगुरुपितृवचनपरिहारेण वितथवादिसत्कवचनप्रामाण्यात्, ढङ्कः प्रत्यनुभाष्य दूषयन्नाह - यदि क्रियाऽभावे दग्घमार्यायास्ततः दडुं किं न तेलोक्कं १, दाहक्रियाऽभावस्य संघाटीत्रैलोक्ययोरविशिष्टत्वात् । तस्मात् - 'डज्झ' इत्यादि । ऋज्वी । तद् भगवति ! 'समए' इत्यादि । दाहास्य- संघाटयादेर्यो यो देशो-यो यस्तन्तुर्यस्मिन् यस्मिन् समयेऽग्नि भावमेति तद् दाह्यं तद्देशलक्षगं तस्मिन्नधिकृते समये दह्यमानं भण्यते, तथा तदेव तस्मिन्नेव समये दग्धमपि भण्यते, यत उक्तं भगवत्यां "डज्झमाणे दड्डे" इत्यादि । 'नियमेणे' त्यादि पूर्ववत् । तदेवं सा तेन प्रत्यानीतसन्मार्गचेतना प्राह- 'इच्छामो' इत्यादि ऋज्वी । प्रथमो निह्नवः । अथ द्वितीयवक्तव्यतामभिधित्सुराह
सोलस वासाणि तया जिणेण उप्पाडियस्स नाणस्स । जीवपएसियदिट्ठी तो उसभपुरे समुप्पण्णा ॥ २८३३ ॥ रायगिहे गुणसिलए वसु चोदस्सपुत्र्वि तीसगुत्तो य । आमलकप्पा नयरी मित्तसिरी कूरपिउडाई ||२८३४||
प्रदेशजीव
निह्नवः
।।६८५॥