SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ विशेषाव कोट्याचार्य ॥६७२॥ एगो चिय देसिज्जइ जत्थऽणुओगे न सेसआ तिण्णि । संतावि तं पुत्तं तत्थ नया पुरिसमासज्ज ॥२७७३॥ नयानां जावंति अजवइरा अपहुत्तं कालियाणुओगस्स। तेणारेण पुहुत्तं कालियसुय दिट्ठिवाए य॥२५७४॥ समवतारः ___ 'मूढ'इत्यादि ।। मूढा नया यस्मिंस्तन्मूढनयं, "अल्पे हस्वे कन्निति" मूढनयकं, अथवा मूढा-अविभागस्थाः , मूढाश्च ते नयाश्च मूढनयास्ते यस्मिन् तत् 'अत इनिठना' विति मूढनयिकं, किं तत् ?, श्रुतं, श्रूयत इति श्रुतं, किंविशिष्टमित्यत आह-काले पौरुषीद्वये 3॥६७२॥ कालग्रहणस्वाध्यायवसतिशुद्ध्यादिविधिना पठयत इति कालिकं, कालः प्रयोजनमस्येति ठक्, न नया इह-अस्मिन् कालिकश्रुते | समवतरन्ति, नास्मिन्नेते प्रतिपदमभिधीयन्त इत्यभिप्रायः । आह-क्व पुनरमीपां समवतारः ?, उच्यते-'अपुहुते समोतारो'त्ति पृथगिति निपातो विभागवाची, तस्य ना प्रतिषेधेऽपृथक्त्वं तस्मिन् , चरणधर्मसंख्याद्रव्यानुयोगानामेकसूत्रव्याख्यानकाल इति | भावना, 'समवतारः' समेकीभावेनावतरणं नयानामभूत् , पृथक्त्वे सति स नास्तीति ॥ भाष्यम्-'अवी'त्यादि पूर्वार्द्धमुक्तार्थ, ते चेदानीमस्मिन् सन्तोऽपि न समवतरन्ति 'प्रतिपदं प्रतिसूत्रमभगनात् , अभगनं च शिष्यानुग्रहार्थम् । पश्चाद्धं व्याचिख्यासुराह'अपु' इत्यादि ।। अपृथक्त्वमेकभाव उच्यते, स च 'सुत्ते' इत्यादि शीलितार्थम् ॥ नियमानियममाह-'तत्थ' इत्यादि । 'तत्रैव' अपृथक्त्वकाले यत्र नामस्थापनादिभिः प्रकारैः सत्पदग्ररूपणादिभिश्च सर्वेषां नयानां सामान्यविशेषलक्षणनयानां प्रतिवस्तु विस्तरेण गुरवः समवतारयन्ति, 'विस्तरेण विरोधाविरोधसंभववचनविशेषादिना प्रपञ्चं दर्शितवन्तः, पृथक्त्वे तु भजना, तथाविधमतिमेधाद्यभावात् ॥ 'एगो चिय'इत्यादि ॥ अनुयोगः प्राधान्यविवक्षितः, शेषा न, महार्थतया दुर्गाद्यत्वात् । तदेवं समवतारे पृथक्त्वाय-12 थक्त्वविशेष उक्तः, आह-कियन्तं पुनः कालमपृथक्त्वमभूत , कुतोवाऽऽरभ्येदं पृथक्त्वं जातमित्यतः प्रासङ्गिकम् ।'जावन्ती'त्यादि। CAMERICA
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy