________________
विशेषाव० कोट्याचार्य वृत्तौ
॥६६८॥
प्राणधारणानुभवः, सिद्धस्त्वजीवः, प्रवृत्तिनिमित्ताभावाद्रिक्तघटाघटवत् । यच्चोच्यते- 'धम्मे य से पदेसे य से' इत्यादि प्रौढवादिना | समासविधिज्ञेन त्वया तदपि सव्याजं, तथाहि - 'जदी' त्यादि । यदि देश्येव देशो देशो वा देशी तन्नन्वनयोः पर्यायशब्दार्थवाच्यतां प्राप्नोति, किं शब्दस्य रुष्यते १ तत्कारी तद्वेषी च भवान् दूषणमभिधीयतामिति चेत्, इतः प्रवर्त्तते 'पुणरुतंती' त्यादि पच्छद्धं, यदि तयोरभेदस्ततः पुनरुक्तं - देशी देशो देशो देशी, यथा शक्र इन्द्रः इन्द्रः शक्रः, तथा आनर्थक्यं वा, एकध्वनेरभिन्नार्थत्वात्, तथा वस्तुसंक्रमो देशिनो देशे तिरोधानाद्, देशस्यापि देशिनि, कदाचिद्विलक्षी भूतोऽभिदध्यात्ततः किमत आह- 'न चेट्टं ते 'वत्थूओ' इत्यादि वचनात् तस्मान्न तत्तावदेकं वस्तु । 'अह' इत्यादि । अथ कदाचिद्वक्ष्यसे भिन्नः - अर्थान्तरः देशिनो देश इति एतदपि बाधाय भवतः, तथाहि तस्य देशिनः तओ असौ देशो न भवति, कुतश्चेत् तु स्मर्यन्तां स्वकीया एव युक्तयः षष्ठी भेदवादिन उक्ता यास्त्वयैव, अथानभ्युपगतोऽयं भवतः प्रतिभाति ततः 'न य वत्थुसंकनभयायो देसी चैव य देसो' न इतरेतरसंक्रमभयाचया तयोरनन्यत्वमिष्यते, तस्माद् भेदेन भवितव्यं, भेदे च नानभ्युपगतोपालम्भः, तथा न वा पदेसी पदेसोत्ति, तुल्यविचारत्वात् तस्मादेशिमात्रं वाऽस्तु मा भूत्समानाधिकरणोऽपि । अथ ब्रूषे- समस्तोपनीतानां देशिदेशकल्पनया भवितव्यं संव्यवहारार्थमवश्यं वाक्प्रयोगात, ततश्च नो देशी नो देश इति, नो तद्देशविशेषे, प्रतिषेधेऽन्यः, स्वपरयोगात्, तदपि न, यस्मात् । 'नो स' इत्यादि । नोशब्दोऽपि समस्तं वा वस्तु 'भणेज्जा' अभिदध्यात् देशी देश इति, देशं वा देशी देशो वेत्येवमेकमंशमित्यर्थः, यदि समस्तं 'तो' ततस्तस्य नोसदस्स पयोगोऽणत्थो, स्वाभिधानेनैव देशी देश इत्यनेन तस्योक्तत्वात्, अथ देशस्तेन नोशब्देन भण्यते ततो नासौ देशी देश इति प्रकारो वस्तु, उभयात्मकत्वात् तस्य तदवस्तु, असंपूर्णत्वा तदेकांशत्, एवमेव च कर्मधार
एवं भूतनयविचारः
||६६८||