________________
विशेषाव कोव्याचार्य
समभिरूढ विचारः
वृत्ती
॥६६५॥
॥६६५॥
तत्कारणत्वादकरवत् , अप्रमाणं वा तत्कारणत्वाद् व्रीह्यादिवत् , ततो नैकान्तिको हेतुः, तथा पश्चानां प्रदेश इति देशप्रदेशकल्पनायामप्यस्य षष्ठीसमासादि नेष्टं, किं तर्हि?, 'जति कम्मधारयेणं विसेस्स तो भणाहि-धम्मे य से पएसे य से य पदेसे धम्मे'त्ति वचनात् । 'देसीत्यादि । देश्येव देशः, देशिव्यतिरेकेण देशाभावात् , देशमन्तरेण देशिनोऽभावाद् , अत उच्यते-'देसी चेव य देसो, नो वत्थु वा निपातः, न पुनर्वस्त्वसौ देशो निःकृष्टः सन् , न चाप्यसौ देशिनो भिन्नो, 'भिन्नो वत्ति मिनश्वेबासौ तस्य, भिन्नत्वादाकाशस्येव रूपं, 'तस्सव जदिति तस्य चेदसौ न तर्हि भिन्नस्तस्येति व्यपदिश्यमानत्वादाकाशावगाहवत् जीवोपयोगवद्वा, आह-भिन्नोऽसौ, | कस्मात्?,तस्येति व्यपदिश्यमानत्वात् , तद्यथा-देवदत्तस्याश्वो राज्ञः पुरुष इत्यतो नैकान्तिको हेतुः, उच्यते,अस्य नयस्यायमसिद्धो हेतुः, षष्ठ्यनाश्रयणात्,तथा ह्यसौ तस्माद् भिन्नोऽभिन्नो वा ?, भिन्नश्चेन तस्यासौ, भिन्नत्वाद्, घटवत्, तस्माद्देशोदेशीत्येकमेवेदं वस्तु ॥ एत्तों इत्यादि । अत एव सर्वपदानां समासमाजां समानाधिकरण एव समासो युज्यते, केषामित्याह-नीलोत्पलादीनां, अनभिप्रेतप्रतिषेधमाह 'ण रायपुरिसादिसंसग्गोंति न राजपुरुषादीन् व्यधिकरणानिच्छति, न तत्पुरुषमिच्छति, संसर्गाभावात् ।। पुनरपि स्वमत एव स्थित्वा परमतनिवारणद्वारेण स्वमतमाह-'घडे'त्यादि । 'कुम्भम्मी'त्यादि गाथा गाथाद्धं च ॥ इह घटं करोतीति घटकारः, इत्यस्यां विवक्षायां 'यतः' यस्मात्कारणात् 'कत्तुः कुलालादनन्तरं अभिन्ना 'क्रिया चक्रादिभ्रमणव्यापारलक्षणा, ततः किमित्यत आह| 'तो'त्ति तस्मात् न तदर्थान्तरभूते कुम्भे-कुलालार्थान्तरभूते घटे तस्याः समवायः, किं तर्हि ?, तक्रियासमवायिनि कर्तरि कारके | तस्याः समवायः, ततश्च कुम्भं करोतीति कुम्भकार इत्वन्वर्थो न घटते, तथाहि-कुम्भनात् कुम्भोऽस्तु, मा भूत् कुम्भकारः, अर्थान्तर| भूते कुम्भे तक्रियासमवायाभावात् । पूर्वग्रन्थस्य युक्तिमाह-'वत्थ्' इत्यादि, यदि पुनः कर्तरीव कुम्भेऽपि सा क्रिया स्यात् ततो
MARRICARROCa