SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ विशेषाव ० कोट्याचार्य वृत्तौ ॥६६३॥ एतो चेव समाणाहिगरणया जुज्जए पयाणंपि । नीलुप्पलाइयाणं न रायपुरिसाइसंसग्गो ॥ २७३९ ॥ कारविवक्खा करणत्थंतरं जओ किरिया । न तदत्थंतरभूए समवाओ तो मओ तीसे ॥२७४०॥ कुम्भम्मि वत्थुपज्जायसंकराइप्पसंगदोसाओ । जो जेण जं व कुरुए तेणाभिन्नं तयं सव्वं ॥ २७४१॥ 'जं ज' मित्यादि । यां यां सञ्ज्ञां भाषते तां तामेव समन्तादाभिमुख्येन रोहति - समध्यास्ते यस्मात् सञ्ज्ञासञ्ज्ञावतोरभेदाद्, अत एवाह-सञ्ज्ञान्तरविमुखो, यदेव शब्द आह तदेव नः प्रमाणमिति वादित्वाद्, एकार्थानेकशब्दवाच्यत्वे चान्य प्रणयनवैयर्थ्याद्, यस्मादेवं तेण नयो समभिरूढोति || 'दव्व' मित्यादि ॥ स्वरूपं 'जं वत्थु'त्ति यद्वस्तु, किंविशिष्टं १ - द्रव्यं पर्यायो वा घटस्तद्व (वा) वर्णादिः किंविशिष्टं ? - वचनमेव वचनान्तरं तस्याभिधेयं वाच्यं वचनान्तर ( वाच्यं घटादिवचसा ) यद्वाच्यं, तत्किमित्यत | आह-न तत् घटादि - घटशब्दाभिधेयं 'अण्णवत्थु भावं' कुटशब्दाभिधेयं कुटभावं शब्दादिवशादपि 'संक्रमते' अनुसंचरति, किमि - ति १, सङ्करः - सङ्कीर्ण रूपं मा भूत् मम घटस्य कुटेन साकं, एवं पदार्था एवं मर्यादां पालयन्तीति । भावनामाह- 'नहीं' त्यादि स्पष्टा ॥ तस्मात् - 'घडे' त्यादि स्पष्टम् । अपिच - गोशब्दतव्यादीनाम् । 'धणी' त्यादि स्पष्टा । तस्माद् घटकुटशब्दौ भिन्नार्थों भिन्नशब्दत्वात् तय्यादिशब्दवत् भिन्नत्वं च (लिंगवचनभिनानां यथा) आगासे भिन्न प्रवृत्तिनिमित्तत्वात् घटपटादिशब्दवत्, यतश्चास्य सूत्रं- 'वत्थूओ संक्रमण होइ अवत्थं 'ति । अत्र वसतिप्रस्थकप्रदेशप्ररूपणा, अन्यथा नैगमादीनां अन्यथा चास्येत्यतो नैगमादीनृजुसूत्रान्तानयं दूषयन्नाह - 'आगासे' इत्यादि ॥ इह देवदत्तद्रव्यमाकाशे वसति, इत्येवं भणिते नैगमादिभिः ऋजुसूत्रान्तैः 'ऋजुसुत्तस्स जेसु आगासपदेसेसु ओगाढो तेसु वसई' ति वचनात् भणत्ययं समभिरूढः - कथमन्यद् देवदत्तद्रव्यमन्यस्मिन् विधर्मिणि वसेत् मुक्त्वाऽऽत्मस्वभावम् ? । " समभिरूढ विचारः ॥६६३॥
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy