SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ विशेषाव कोट्याचार्य वृत्ती ऋजुसूत्रविचारः ॥६५९॥ ॥६५९॥ व्रजति व्यवहारः । उक्तो व्यवहारः, अथ ऋजुसूत्रः, तत्र उज्जु रिजु सुयं नाणमुज्जु सुयमस्स सोऽयमुज्जुसुओ। सुत्तयइ वा जमुज्जु वत्थु तेणुज्जुसुत्तोत्ति॥२७१८॥ पच्चुप्पन्नं संपयमुप्पन्नं जं च जस्स पत्तेयं । तं रिजु तदेव तस्सत्थि वक्कमन्नंति जमसंतं ॥२७१९॥ नवि गयमणागयं वा भावोऽणुवलंभओ खपुप्फंव । न य निप्पओयणाओ परकीयं परधणमिवत्थि॥२७२०॥ जइ न मयं सामन्नं संववहारोवलद्धिरहियंति । नणु गयमेसं च तहा परक्कमवि निष्फलत्तणओ॥२७२१॥ 'उज्जु मित्यादि । अस्य चेदं लक्षणम्-'उज्जु'न्ति प्राकृते, संस्कृते वक्रविपर्यासाद् ऋजु अभिमुखमित्यर्थः श्रुतं-ज्ञानमुच्यते, | ततश्च ऋजु वर्तमानं श्रुतमस्य सोऽयमृजुश्रुतः, अथवा ऋजु सूत्रयति-गमयतीति सः, तथा चाह-'तं रि' इत्यादि'गतार्थम् । अथवा ऋजु सूत्रयतीति कोऽर्थः १, प्रत्युत्पन्नं वर्तमानमृजूच्यते, यद्वा यस्य स्वाधीनं, तद् ऋजु सूत्रयतीति ऋजुमूत्र इति । आह च-पच्चु' इत्यादि । पादत्रयं गतार्थ, प्रयोगः-तदेव वर्तमानं तस्यास्ति नातीतानागते, विनष्टानुत्पन्नत्वात् , तथाविधवस्तुद्वयवत् , तथाऽऽत्मीयमेवायं बहु मन्यते, परकीयं न, अनुपयुज्यमानत्वात् , परधनादिवत् , यच्चान्यद् असत्परकीयं वा तक्रमुक्तवत् , अथवा वक्ष्यमाणेन न्यायेन, आह च-'णवी'त्यादि गतार्थम् । अपिच भो व्यवहार ! 'जती'त्यादि । यदि त्वया सामान्य नेष्टमुपलम्भादिव्यवहाररहितत्वात् , तन्ननु मूढ गतेष्ये च वस्तुनी तथा-तेन प्रकारेण वर्तते यथा सामान्यं, तस्मात्ते अपि सामान्यवन स्त इत्येवमालोच्य किं नोच्यते ? येन वचनीयतां प्रतिपद्यसे, तथा परकीयमप्यसदिति किं नोच्यते ? निष्फलत्वात् खरविषाणव| दिति, किं तयं प्रतिपद्यते ? इत्याह-'तम्हा' इत्यादि ॥ तस्मादयं निजं प्रतिपद्यते, तदपि साम्प्रतं, तथा लिंगभिन्नमप्ययं प्रति
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy