________________
विशेषाव० कोट्याचार्य
वृत्तौ
॥६५८ ॥
भमराई पंचवण्णाई निच्छए जत्थ वा जणवयस्स । अत्थे विणिच्छओ सो विणिच्छयत्थोत्ति सो गज्झो २७१६ बहुतरउत्तिय तं चिय गमेइ संतेऽवि सेसए मुयति । संववहारपरतया बवहारो लोगमिच्छंतो ॥२७१७॥ 'वव' इत्यादि । व्यवहरणं व्यवहार इति भावः, व्यवहरत्यसाविति कर्त्ता, 'कृत्यल्युटो बहुल' मिति योगविभागात् तेन वा व्यवहियत इति कर्म, विशेषेण वा अवहारः सामान्यस्येति व्यवहारः (विशेषयति वा विशेषकः) व्यवहारः, स च नहि यदुक्तमूक्तिकं सच्च प्रतिपद्यते ?, किन्तु वच्चइ विणिच्छयत्थं ववहारो सव्वदव्वेसु, अस्य व्याख्या- 'सदी' त्यादि । सदिति भणिते सति तस्य सतो विनिश्चयं गच्छति मनसा विचारयति तथा किं तत्सदिति ?, विशेषेभ्योऽन्यत्सदिति यत् संव्यवहारादवेतं न किञ्चिदित्यर्थः । उव इत्यादि । किमन्ययोक्तथोक्तया १, प्रसह्यमेव ब्रूमः - तन्नास्ति अनुपलम्भादिभ्यः खपुष्पवत्, हेतुप्रपञ्चः सुखप्रतिपत्तये, स्वपक्षसिद्धिमाह - सन्ति विशेषाः प्रत्यक्षग्रहणात् घटवत् । 'जं चे' त्यादि स्पष्टा । 'अन्ने' त्यादि । यदि विशेषेभ्योऽनन्यत्तत्तन्मात्रं, तत्र अन्यत्वे तन्नास्ति विशेषरहितत्वात्खपुष्पवत् । 'तहे' त्यादि सुगमा । 'तो' इत्यादि । तो व्यवहारः पर्यालोचयति, कोऽयं वनस्पतिः १, किं चूतः स्यादुत बकुलादिरूपो वृक्षसंघातः ?, मन्ये वृक्षा एवामी, नैतेभ्योऽधिकं वृक्षत्वमिति । अथवा - 'अहिगो' इत्यादि । अधिकवयो निश्चयः यथाऽधिको दाहो निदाघः, स च सामान्यं, 'अस्स'त्ति अस्यैवं सञ्ज्ञितस्य सामान्यस्य व्यवहारो व्रजति विनिश्वयार्थ, विसामान्यभावं यातीत्यर्थः । अथ चैवम्- 'भमरे' त्यादि । 'बहु' इत्यादि । निश्चयेन - परमार्थेन भ्रमरादेः पञ्चवर्ण बच्चे सत्यपि य एव बहुतरो गुणस्तमेव गमयतीति संव्यवहारपरतया व्यवहारो लोकमनुवर्त्तयन् शेषांस्तु मुश्चति-न विवक्षयति, यत्र चार्थे त्रिकालविषये नामादिचतुष्टयविशिष्टे जनपदस्य विनिश्वयः स विनिश्वयार्थोऽभिधीयते, यो ग्राह्य इत्युक्तं भवति, तदर्थं
व्यवहारयविचारः
॥६५८ ॥