________________
विशेषान ० कोट्याचार्य वृत्तौ
॥६५५॥
**
सर्वगतान्यत्वात् खमिव, अपिच- द्रव्यादिषु सामान्यवशादनुवृत्तिप्रत्ययः, तेष्वेव च विशेषबलाद्वयावृत्तिप्रत्यय इत्यभ्युपगमः । अनालोचिताभिधानमाह - 'सामन्नेत्यादि । यदि द्रव्यगुणकर्मसु सामान्यकृतं सज्ज्ञानं, विशेषकृतं च विशेषज्ञानं, सामान्यविशेषार्थकृतं च सामान्य विशेषज्ञानं, ततस्तेषु सामान्यविशेषसामान्यविशेषेषु किं निमित्तं तज्ज्ञानं ?, ननु तस्यापि हेतुर्वक्तव्यः, कार्यत्वादाद्यस्येत्र, अथ मनुषे - तत एव महासामान्यादिस्वकायसच्चादेव तेषु तज्ज्ञानमिति, सामान्यादिज्ञानं परहेतुरेव ततश्च योऽमीषां हेतुस्तत्सामान्यादित्ययमेकान्तो न भवति, एतदुक्तं भवति - एतेष्वन्यनिरपेक्षा तबुद्धिवचनप्रवृत्तिरिति, किमुच्यते- 'सामण्णमण्णदेव ही त्यादि । सिद्धान्तव्यवस्थितिमाह सूरिः - 'तम्हा' इत्यादि || 'तम्हा' इति तस्मान्नैकान्तेनार्थान्तरमनर्थान्तरं वा निमित्त, किं तर्हि १, वस्तुन एव- द्रव्यस्यैवात्मभूतो यः सदृशोऽन्यधर्मैः पर्यायस्तस्मात्सामान्यमिति ब्रूमः, तद्यथा - द्रव्यत्वज्ञेयत्वचेतनाचेतनत्वादि, यस्तु विसदृशोऽन्यैः सवरूपः स तु विशेषो मतः, किंविशिष्टः १, तस्माद् विवक्षिताद्वस्तुनोऽनन्य इति परमार्थः । आह- किमिदमस्थाने स्याद्वादपरमार्थकथनं सूरेः १, उच्यते, लाघवार्थ च, नयपर्यन्ते एतदवश्यं वक्तव्यं तच संस्कारव्यवधानं प्रागेव प्रतिपत्तिमादध्यादिति । उक्तो नैगमः, संग्रहमाह, तस्य चेदं लक्षणम्
संगहणं संगिण्हइ संगिज्झते व तेण जं भेया । तो संगहोत्ति संगहियपिंडियत्थं वओ जस्स ॥२६९९|| संगहियं आगहियं संपिंडियमेगजाइमाणीयं । संगहियमणुगमो वा वइरेगो पिंडियं भणियं ॥ २७०० || अहव महासामन्नं संगहियं पिंडियत्थमियरंति । सव्वविसेसानन्नं सामन्नं सव्वहा भणियं ॥ २७०१ ॥ एगं निचं निरवयवमक्कियं सव्वगं च सामन्नं । निस्सामन्नत्ताओ नत्थि विसेसो खपुष्कं व्व ॥ २७०२ ।।
संग्रहनयविचार:
।।६५५॥