SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ विशेषाव कोव्याचार्य वृत्तौ नैगमनयविचार: ॥६५३॥ ॥६५३॥ यमन्यत्वबुद्धिः भिन्नाविमाविति आकृतिवदनुवर्तते सर्व, एव तुल्यक्रिये, अणुमनसोराद्यं कर्मादृष्टकारितं, यथाऽऽहुरग्नेरूद्धज्वलनं वायोस्तिर्यग्गमनं ५ । अथ 'एकदेसतीतागते'त्ति एकस्मादाकाशप्रदेशाद् यदैवैकः स्थितिक्षयाद्वयेति अपरस्तु तदुद्भवादेति तयोर्येयमन्यत्वबुद्धियोगिनः सा न अन्त्यविशेषमन्तरेण सम्भवति, स चान्त्यो विशेषोऽणुद्रव्यादन्य इति सोऽस्य नैगमस्य बुद्धिः-मतिरभिप्रायः ॥ तदेवं गदतः सूरेरयमत्राभिप्रायो-नेदं परमार्थो, मिथ्यादर्शनात् , यतश्चोद्यद्वारेण प्राह-'नणु'इत्यादि । नन्वयं नैगमः सम्य. ग्दृष्टिरेव, द्रव्यपर्यायार्थिकमतावलम्बित्वानसाधुवत् , अत्र हेतोरपक्षधर्मतां साधनधर्मविकलतां वा दृष्टान्तस्यावेदयन्नाह-'जं सा' इत्यादि । यस्मादसावुक्तेन प्रकारेण सामान्यविशेषौ द्रव्यपर्यायार्थिकपक्षी 'परस्परं' अन्योऽन्यमत्यन्तभिन्नौ मन्यते, 'वत्थओ य भिण्णे' द्रव्याच भिन्नौ, तस्मादसिद्धो हेतुः, साधुना इतरेतरसव्यपेक्षाभ्युपगमात् । तथा एवंभूतं चोभयमतावलम्बित्वं साधुदृष्टान्ते नास्तीति साधनविकलोऽपि दृष्टान्तः, अतोऽसौ मिथ्यादृष्टिः, अयथार्थाभ्युपगमात काणादवत् ॥ दृष्टान्तभावनार्थमाह-'दोहिवी'त्यादि स्पष्टा ।। अथोत्तरसंग्रहनयमतावलम्बिना सूरिणा नैगम उपालभ्यते, "समनन्तरानुलोमाः पूर्वविरुद्धा निवृत्तनिरनुशया" इति | न्यायलक्षणात् । 'जती'त्यादि । अथवा सामान्यवचनबुद्धिहेतोः सामान्याभ्युपगमेऽयं ते प्रसङ्गः 'यदी'त्यभ्युपगमस्मारणार्थः, यदि | तत्सामान्यं भवतो यत्सामान्यबुद्धिहेतुः, इतिशब्दः पूर्वपक्षपरिभाषणपरिसमाप्त्यर्थः, 'तो' ततो विशेषोऽपि सामान्यं भवतः प्रसजति, किं कारणमित्याह-अन्यसामान्य( बुद्धिहेतुत्वात् , विशेषः )सामान्यं सामान्यबुद्धिहेतुत्वात् महासचवदाद्यसामान्यवद्वा, स्यादसिद्धो | हेतुर्ममेति, तच्च न, भवसिद्धान्तसिद्धत्वात् , तथाहि गोत्वं महिष्यादिभ्यो व्यावर्त्तमानत्वाद्विशेषः, तदेव खण्डमुण्डशावलेयबाहुलेया४| दिव्यक्तिषु सामान्याकारप्रत्ययहेतुरिति दृष्टं, तथा मनुष्यत्वं गवादिव्यावृत्तेर्विशेषः ब्राह्मणादिषन्वयात्सामान्यबुद्धिहेतुः, तथा मा
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy