________________
विशेषाव ० कोट्याचार्य
वृत्तौ
॥६४८॥
माघारद्रव्यं नाशोपलक्षितं सत् अभाव एव, कथमित्यत आह-'तथा' तेन प्रकारेण एतदुक्तं भवति - बाल्य विनाशोपलक्षितं धौन्यं (युवत्वं) पूर्व पर्यायेणाभाव एवोत्तरपर्यायाध्यासितत्वाद्, आह च- 'अन्नह भावो' अन्यथा - अन्येन वृद्धत्वपर्यायेण तद् धौव्यं भावो वर्त्तते, तदधिकरणत्वात्, अत्र किल लब्धावसरः पर आह- 'नणु' इत्यादि, नन्वेवं लक्षणद्वयाभ्युपगमाद् भावाभावोभयस्वभावं तद् द्रव्यं भवतः प्राप्तं, तथा सत्येकस्यैकदोभयधर्मता विरुद्धेति, उच्यते ननु मूढ ! 'एव' मित्यादि । एवमेव तद्वस्तु स्वतस्त्वं प्रतिलभते यदि तथा भवदभवच्च खरसत एवोभयथा भवति, न चैकस्मिन्नपि काले तदस्य भावाभावद्वयमिष्यमाणमाहतानां क्षतिमावहति, निमित्तभेदेनाभ्युपगम्यमानत्वाद्, अत उच्यते एवं चिय तं वत्थुत्ति, विपक्षे बाधकं त्वाह- 'सर्वथाऽभावे च सर्वथा नास्तित्वे च तत् खपुष्पकल्पं स्यात्, यदि च 'न किञ्चित्तत्र भवति, न भवत्येव केवलं', ततः प्रबन्धवृत्या प्रवर्त्तमानस्य द्रव्यस्यादर्शनमेव, न च वासना शरणं छिनत्वात् तस्मान्न तद् बौद्धस्य वस्तु सर्वथाऽसच्चात् खरविषाणवत् । 'भावे' त्यादि, सर्वथाऽपि स्वभावे तस्य द्रव्यस्य सर्वसंकरैकत्वं नित्यादिदोषश्च तथाहि - घटोऽघटः पटोऽपि कटोऽपि यावत् त्रैलोक्यमपि निर्विशेषेणास्तित्वपरिणामात्, तथा नित्यत्वदोषस्तेनैव रूपेणावस्थानप्रसङ्गात्, आदिशब्दात् सर्वथाऽस्तित्वे मृत्पिण्डोऽपि घटोऽस्तीति व्यर्था कुम्भकारस्य चेष्टा, यदि च मन्यसे 'सर्व सर्वात्मक'मिति तदपि सव्याजं, तस्मादनेकान्त एव वास्तवो, न तौ, परिकल्पितत्वात्, नरसिंहे सिंहत्वादिवत् सामान्यादिवर्त्मनामनेकत्वात् । ।।६३-६६।। ‘उप्पन्ने' त्यादि गाथानवकं सुगमम् ||६७-७५ || अथ नयद्वारं, तस्य चेदं लक्षणम्
गेण वोsधम्मुणो जमवधारणेणेव । नयणं धम्मेण तओ होइ नओ सत्तहा सो य ॥ २६७६॥ गम संगहववहारज्जुसुए चेव होइ बोद्धव्वे । सद्दे य समभिरूढे एवंभूए य मूलनया । नि. ७५४ ॥
-44044
उत्पादादीनां लक्षणता
||६४८॥