________________
विशेषाव ० कोट्याचार्य वृसौ
||५०७ ||
| तेन सौम्य ! प्रतिपद्यस्व सर्वाः क्रियाः संसारिणः सर्वस्यादृष्टैकान्तिकफलाः दृष्टे त्वनैकान्तिकफलाः, असावपि दृष्टेऽनैकान्तिकफला अ|दृष्टसंस्कारादेव, अन्यथा समानमीहमानयोरेकस्य वैधुर्यमयुक्तरूपं न स्यादिति गाथार्थः ॥ २१०१ -२ ॥ ' अहवेत्यादि । अथवा पूर्वमेवा| स्माभिः 'फलाउ' चि तुल्यसाधन प्रवृत्तयोः फलविशेषोपलब्धौ सत्यामिति यदुक्तं भवति, केन हेतुनेत्याह - कार्यत्वादित्यनेन, किंवदित्याह - घट परमाणुवत्, 'किरियाण तयं फलं भिण्णं' ति अतस्तदेवेह फलं भिन्नमनुमेयं, कासां १ - 'क्रियाणां दानादिव्यापाराणामित्यतोऽस्ति कर्मेति गाथार्थः || २१०३ ||
आह मणुमुत्तमेवं मुक्तं चिय कज्जमुत्तिमत्ताओ । इह जह मुत्तत्तणओ घडस्स परमाणवो मुत्ता ॥२१०४॥ तह सुहसंवित्तीओ सम्बन्धे वेयणुब्भवाओ य । बज्झबलाहाणाओ परिणामाओ य विष्णेयं ॥ २१०५॥ आहार इवानल इव घडुव्व नेहाइकयबलाहाणो । खीरमिवोदाहरणाई कम्मरूवित्तगमगाईं ॥ २१०६॥ अह मयमसिद्धमेयं परिणामाउत्ति सोऽवि कज्जाओ । सिद्धो परिणामो से दहिपरिणामादिव पयस्स ॥२१०७॥
‘आहे’त्यादि ॥ नन्वेवं मूर्त्त कर्म प्राप्तं, कार्यमूर्त्तत्वात्, मृत्पिण्डवत्, तथा च कर्मकार्या देहादयो मूर्त्तास्तदपि मूर्त्तमिति ध|र्मिस्वरूपविपरीतसाधनो नाम विरुद्ध इति, उच्यते, सौम्य ! " महता सुप्रयत्नेन, सन्नद्धैर्गजवाजिभिः । यदस्माभिरनुष्ठेयं, गन्धर्वैस्त| दनुष्ठितम् ||१||" 'मुत्तं चियेत्यादि स्पष्टम्, प्रयोगः - मूर्तिमत्कर्म कार्यमूर्त्तत्वादणुत्रद्, व्यतिरेकेग विज्ञानकारणमात्मा, आह - एवं घटोऽप्यमूर्ती विज्ञानकारणत्वात् आत्मवदित्यसिद्धो व्यतिरेकः, न, निमित्तकारणप्रतिषेधद्वारेण समवायिकारणस्यैव विवक्षितत्वात्, जीव| कर्मणोर्भेदोपचारात्, व्यतिरेकसिद्धावप्यपरं रन्ध्रमिति चेत्, तथाहि-अमूर्त कर्म सुखाद्यनुभूतेर मूर्त्तत्वात् न च मूर्त्तादमूर्त्तमिति, विरोधाद्,
कर्मणो
मूर्त्तत्वं
॥५०७ ॥