________________
विशेषाव ० कोट्याचार्य वृत्तौ
॥६३९॥
प्रत्ययः, तद्विपरीतो बाह्यलिङ्गविमुखो भावे - भावविषयः प्रत्ययः आत्मस्वरूपावबोधः, स चावध्यादिस्त्रिविधः । इह च प्रकृतं सामायि कमुररीकृत्य यतः प्रत्ययो व्याप्रियत इत्यत आह- 'केवलेत्यादि । इह जिनेन्द्रस्य सामायिकार्थं विज्ञाय कथयत आत्मैवावष्टम्भः किं कारणमित्याह - अनन्य केवलज्ञानप्रत्ययत्वाद् युगपद शेषप्रत्याय्य जीव लोकतच्च ज्ञानोत्पादनाच्च 'तप्पच्च' इत्यादि, तथा केवलज्ञानाहितशंसीतिश तव्यवच्छेदप्रत्यक्षत्वात् तत एव केवलप्रत्ययाद् गौतमादीनां सामायिकार्थश्रवणं प्रवर्त्तते, न यादृच्छिकमिति, तस्मात्रिविध एव प्रत्ययः, तत्र चान्त्येनाधिकार इति प्रकरणम् । एवं स्थिते सत्याह-मतिश्रुते अपि प्रत्ययः अवबोधसामन्याभेदादिति किमु च्यते त्रिविध एव प्रत्ययः १ ॥ २७ - ३० ।। अत्र परिहारगाथा - 'जेणे' त्यादि ॥ येन कारणेन सामायिकमतीन्द्रियं अप्रत्यक्षमिष्टं भगवता, मनःषष्ठानामिन्द्रियाणां द्रव्यनिबन्धनत्वात् सामायिकस्य चात्मधर्मत्वेनामूर्त्तत्वतस्तदविषयत्वात्, 'तो' त्ति तेन कारणेनावध्यादिविषयं तत् तेन कारणेनावध्यादिमतः प्रत्याययितुरात्मप्रत्ययत्वेन स्वसंविदितं तदिति भावना, चोद्यं वक्ष्यति, अत एवाह - " न उ महसुयपञ्चक्ख' न पुनर्मतिश्रुतप्रत्यक्षं कथञ्चिदिति वाक्यशेषः । उपपत्तिमाह- 'यत्' यस्मात् 'ते' मतिश्रुते इन्द्रियानिन्द्रियजत्वात् परोक्षविषये, तस्मात्सुष्टुच्यते सूत्रकृताऽवध्याद्येव त्रेधा प्रत्ययः । आह - एवमप्यवधिमनः पर्याययोः सामायिकप्रत्ययता न युक्ता, तदसाक्षात्करणात्, मतिश्रुतयोरिव, व्यतिरेकेण तु सर्वद्रव्यपर्यायविषयत्वात्केवल मुदाहरणं, आह च चोदकः - 'जुत्त' मित्यादि, गतार्था ॥ अस्य समाधिमाह - 'ज' मित्यादि ॥ 'यत्' यस्माद् 'भवस्थस्य' प्रत्याययितुः 'प्रायः' बाहुल्येन द्रव्यलेश्यापरिणामः सामायिकं 'तो' तेसिं ओहिमणणाणं 'पञ्चक्खत्तणओ' द्रव्यप्रत्यक्षत्वात् तदपि सामायिकं प्रत्यक्षं, उपचाराच्चायं न्यायस्तयोरित्यसाधुः प्रयोग इति ।। ३१-३३ || एवं स्थापिते किलापरमनिष्टमापद्यत इत्याह चोदक:- 'ओहादी' त्यादि ॥ यदि तत्सामायिकं अवध्यादिप्रत्ययमेवोक्तवत्
* प्रत्ययद्वारेऽवध्यादयः
॥६३९॥