________________
विशेषाव
वृत्ती
अणुवकयपराणुग्गहपरो पमाणं च जं तिहुयणस्स | सामाइयउवएसे तम्हा सद्धेयवयणोत्ति ॥२६३९।।
प्रत्ययद्वारेकोव्याचाये है सत्थं च सव्वसत्तोवगारि पुव्वावराविरोहीदं । सव्वगुणादाणफलं सचं सामाइयज्झयणं ॥२६४०॥
ऽवध्यादयः बुज्झामो णं निजमिव विण्णाणं संसयादभावाओ। कम्मक्खओवसमओ य होइ सप्पच्चओतेसिं ॥२६४१॥
'पच्चयेत्यादि । प्रत्याययतीति प्रत्ययः, प्रत्यायनं वा प्रत्ययस्तस्य निक्षेपः, स्खलुशब्दोऽनन्तरोक्तकारणनिक्षेपसाम्यप्रदर्शनार्थः, ॥६३८॥
18॥६३८॥ ततश्चायमपि नामादिश्चतुर्धा, तत्र द्रव्यतो व्यतिरिक्तस्तप्तमाषकादिः, आदिशब्दाद् घटादिपरिग्रहः, द्रव्यं च तत् प्रत्याय्यप्रतीतिहेतुत्वात् प्रत्ययश्च द्रव्यप्रत्ययस्तप्तमाषकादिरेव तद्, यो वा प्रत्याय्यपुरुषप्रत्यय इति, 'भावम्मि' भावविषयः प्रत्ययोऽवध्यादिस्वधा, बाह्यलिङ्गकरणानपेक्षित्वात् , आदिशब्दान्मनःपर्यायकेवलज्ञाने, मतिश्रुते त्वेतद्विपर्ययत्वान्न विवक्ष्येते, भावप्रत्ययेनैवाधिकारः, अत एवाह-'केवल'इत्यादि । केवलज्ञानी अहमिति स्वप्रत्ययादईन् प्रत्यक्षत एव सामायिकार्थमुपलभ्य सामायिक परिकथयति गणधरेभ्यः, 'तेसिपित्ति तेषामपि श्रोतृणां गणधगणां प्रत्ययः खलु-निश्चय एव यदुत सर्वज्ञोऽयमिति, संशयच्छेदसामोपेतत्वात्, तस्मात्तत्सकाशे निशमयन्ति सामायिकाथै, अत एव यदुच्यते तत्वेन 'सर्वज्ञोऽसाविति ह्येतत्तत्कालेऽपि बुभुत्सुभिः। तज्ज्ञानज्ञेयविज्ञानरहित| गम्यते कथं ॥१॥ तन्न घटां प्राञ्चति, यतो-हृद्गताशेषसंशीतिव्य(त्य)पगमाद्गम्यते तथा। तज्ज्ञानज्ञेयविज्ञानरहितैरपि मानवः ॥२॥ | इत्थं चैतदङ्गीकर्तव्यं, यतो न ह्यचतुर्वेदश्चतुर्वेदं जानातीत्यतो भवतोऽपि न व्यवहारलोपः प्राप्नोति ॥ इदं गाथाद्वयं व्याचिख्यासुराह भाष्यकृत्-'दव्वस्से'त्यादि ।। प्रत्ययः समयो हेतुरवष्टम्भो लिङ्गमितियावत् , द्रव्यस्य प्रत्ययः-प्रत्याय्यपुरुषस्य प्रतीतिः द्रव्यप्रत्ययः, एवं द्रव्याद् द्रव्येण प्रमृष्टरिक्थमानवे प्रत्ययः कोशविषपानभक्षणेन त्रिःसप्तोचारणेन वा येन प्रत्याय्यस्य प्रतीतिभवेत् स द्रव्य