SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ विशेषाव कोट्याचार्य वृत्तौ ॥६३६॥ *40*%%% तीर्थकर नामसञ्ज्ञकर्म मया बद्धं तद्वेदितव्यमितिकृत्वा । 'तं चे' त्यादि 'नियमे'त्यादि, प्राग्वत् ॥ १८- २० ॥ इत्थं तीर्थकृतः सामायिकभाषणप्रयोजनमभिधाय गणधरश्रवणकारणं पृच्छाद्वारेणाह - 'गोय' इत्यादि । गौतमादयः सामायिकं 'किं' कस्मान्निशमयन्ति ?, उच्यते - 'नाणस्स' ज्ञानाय, तत्किमर्थं तैरिष्यते ?, आह-तत्तु ज्ञानं 'सुंदरमङ्गलभावाणं' यथायोगं हेयोपादेयतत्त्वानां ' उपलब्धये' परिज्ञानार्थ, हेयोपादेयोपलब्धिश्च निवृत्तिप्रवृत्तिहेतुरिति, आह च- 'होती' त्यादि । भवतः प्रवृत्तिनिवृत्ती शुभेतरभावपरिज्ञानात्, ते च प्रवृत्तिनिवृत्ती 'संजमतप' इति संयमतपसोः कारणं, तत्र निवृत्तिकारणत्वेऽपि संयमस्य प्रानुपादानमपूर्वकर्मागमनिरोधोपकारेण प्राधान्यख्यापनार्थं, तत्पूर्वकं च वस्तुतः सफलं तपः, कारणान्यथोपन्यासस्तु संयमे सत्यपि तपसि प्रवृत्तिः कार्येत्य मुनाऽर्थेन प्राधान्यख्यापनार्थमेवेति, तयोश्च संयमतपसोः पापकर्माग्रहणं, तथा कर्मविवेकश्च कारणं निमित्तं यथासंख्यं, उक्तञ्च पूर्वमुनिभिः - "संयमे अणण्यफले तवे वोदाणफले" (सवणे० भग० स्थानांग ० ) इत्यादि । 'अणण्हवो' अनाश्रवः 'बोदानं' कर्मनिर्जरा, कर्मविवेकस्य प्रयोजनं 'असरीरता चेव' त्ति अशरीरतैव, चः पूरणार्थः । साम्प्रतं विवक्षितमर्थमुक्तार्थानुवादेनाह'कम्मे 'त्यादि । 'कर्मविवेकः' कर्मपृथग्भावः अशरीरतायाः कारणं, अशरीरता अनावाधायाः कारणं, तथा भवत्यनाबाधानिमित्तं भवत्यनाबाधायाः कार्य 'अवेदन:' वेदनारहितः, जीव इति शेषः, स चावेदनत्वादनाकुलः, अनातुर इत्यर्थः, अनाकुलत्वान्निरुग् भवति ।।२१ - २३|| 'निरु' इत्यादि । स हि जीवः निरुक्ताया अचलो भवति, अचलतया च शाश्वतो भवति, शाश्वतभावमुपगतः किमत आह-अव्याबाधं सुखं लभते, एवं पारम्पर्येणाच्याबाधसुखार्थमपि तं शृण्वन्ति त इति । अमुमेवार्थं भाष्यकृत् संप्रदाययन्नाह - 'तित्थगरे' त्यादि गतार्था । 'तंपी' त्यादि । तदपि - गणभृतां ज्ञानं सुन्दरेतरभावोपलब्धये, साऽपि प्रवृत्तिनिवृत्यर्था एवं पूर्व भावे कार णानि ॥६३६॥
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy