________________
विशेषाव कोव्याचार्य
पट्कारकविचार:
वृत्ती
॥६३३।।
मप्रस्तुतं, व्यवहितत्वात् , अथवा किमुपचारेण ?, मुख्यमेव कर्मास्तु कर्तुरीप्सिततमं, तथाहि-कुम्भकारः कुम्भं करोतीति कर्मण्युपपदे अण् प्रत्यय इति कुम्भ एव कर्मान्तरंगतया, तदेव तस्य कार्य निर्वर्त्यमिति बाह्यः स एव कुम्भः कारणं कुम्भस्य कार्यस्य, कथमिति ?, यल्लोके मृत्पिण्डमर्दनचक्रारोपणदण्डग्रहणकाले कुम्भकारः किं करोषीति पृष्टः सन् प्रत्याह-कुम्भं करोमीति, न पुनब्रवीति-मृदं गृहामि चक्रे आरोपयामि दण्डकं गृह्णामीति वा, तस्मादेवं लक्ष्यते-कोऽपि बुद्धिस्थोऽर्थः कुम्भाख्यः कर्मास्य येनास्यामवस्थायां कुम्भकार इत्युच्यते, स च बाह्योऽर्थ उत्पत्स्यमानः तस्य वर्तमानस्य विज्ञानस्वरूपस्य कुम्भस्य तदालम्बनत्वात्कारणं, कुम्भबुद्धेहेतुत्वात् , अत एव लोके व्यवहारः सर्वत्र, भाविनि भूतवदुपचार इति, तत्समर्थनार्था गाथा-'भव्यो' इत्यादि । भविष्यतीति भव्य:-भवनयोग्यः, शक्यो वा भावयितुं, एवं बुद्धिस्थोऽसौ स्वरूपलाभस्य कारणम् । यतश्च सर्वकारणसंनिधानेऽपि यावन्न बुद्ध्याऽऽलोचितं कार्यमिदमेवंविधमनेन क्रियाकलापेन निष्पद्यत इति नावदभीष्टकार्यनिष्पत्तिरेव न भवति, न च कश्चिजिज्ञासार्थमेव सर्वकार्याणि करोति, एवं क्रियमाणे किमपि भविष्यतीति, न कश्चिदाकाशार्थमारम्भं करोतीति, कारणानि वा संवादयतीति, तस्माद्वस्तुस्वभावगत्या लोकक्रियासंवादाच ॥८-१०॥ 'बज्झ' इत्यादि । दण्डचक्रादिवाह्यनिमित्तापेक्षं विज्ञानमयमन्तरङ्ग कार्य क्रियमाणकाले-मृन्मर्दनचक्रारोपणादिकाले कारणं भवति, कस्य ?, स्वस्यैव, आत्मन इत्यर्थः, इतरथा अन्यथानिरूपणायां विपर्ययो वा भवेत् , कुम्भे आरब्धे शरावं निष्पोत, पटो वा अभाव एव वा स्यात् , न किश्चित्स्यादित्यर्थः ।। अथ संप्रदानकारक प्राङ्निरूपितार्य तदाह भाष्यकार:-'देओ' इत्यादि । स घटो यस्मै ब्राह्मणाय देयः सोऽपि तस्य कारणं अर्थित्वात् ॥११-१२॥ अपादानमाह-'भू'इत्यादि॥ 'दो अवखण्डने' दानं खण्डनमपचय इत्यर्थः | अप आदान-अपसृत्य मर्यादया खण्डनं अपादानं, अपाये सत्यपि यद् ध्रुवं-अचलमास्ते तदपादानसझं, चक्रमूनि वा पिण्डापाया