________________
कारणनिरूपर्ण
वृत्ती
॥६३०॥
विशेषावार तन्तुधर्मः कस्मान्नेष्यते ?, तत्समवायाविशेषात् , अथवा 'सगुणा व ति यथा तन्तूनां स्वगुणाः-शुक्लादयो धर्माः, एवं घटोऽपि, कोव्याचार्य । | ततश्च प्रयोगः-तन्तुधर्मः पटस्तन्तुषु समवायित्वात्तन्तुसंयोगवत् शुक्लत्वादिगुणवद्वा, व्यतिरेकेण घटः, आह काणादो-नन्वनेन हेतु
ना पटतन्तुधर्मतासिद्धावपि न भवदिच्छाव्याप्तमेतदनन्यत्वमाराध्यते, तथा च नानन्यस्तन्तुधर्मः पटः, किं तर्हि ?, अन्यः स
तन्तुधर्मः, तत्समवायित्वात् तन्तुसंयोगवत् शुक्लतावद्वा, ततश्च धर्मविशेषविपरीतसाधनादिष्वतिपाती विरुद्धोऽयं, उच्यते, न वि॥६३०॥
रुद्धः, 'असति बाधन' इति न्यायलक्षणात् , तथा च विरुद्धाभिधाय्यन्यत्वविशिष्टधर्मापादनं प्रति प्रमाणस्य तन्तुसंयोगानां तत्शुक्लत्वदृष्टान्तस्य चानुभयसिद्धत्वेनान्यतरसाध्याविकलदृष्टान्तसद्भावाद् विरुद्धाभासत्वं, न ह्यार्हतानां गुणगुणिनोभेंद एव, सर्वव्यापि-5 स्वात्स्याद्वादस्य, तद्दर्शयत्याचार्यः-'दव्वस्स गुणादयो चेवत्ति द्रव्यस्य-तन्त्वादेर्गुगादयः, आदिग्रहणासंयोगकार्यद्रव्यसामान्यसामान्यविशेषधर्माः संबध्यन्ते, एवमन्यानन्ये वर्तन्त इति गुणगुणिभेदः, तथा द्रव्यात् तन्त्वादेर्गुणादयोऽभिन्ना इत्यनेकान्तः, अथवाऽनुमानमेवेदं पृथग्, वादी काणाद आह-द्रव्यादन्ये गुणा लक्षणाभिधानप्रत्ययविशेषाद् गवाश्ववत् । अथैतदनैकान्तिकत्वख्यापनायानुमानविरुद्धप्रतिदोषप्रकाशनाय चाह-'अभी'त्यादि। यथा 'सदर्थतः' सदर्थात्-सामान्यात् अनन्ये दिक्कालादयो विशेषाः, अभिमावि भिन्ना अपि, यदि दिक्कालादयः सदर्थादन्येऽसन्तस्तर्हि ते खरविषाणवत्, अथानन्ये सदर्थपात्रं ते ?, उच्यते, अत एव भेदा-! भेदः । तथा चामुमेवार्थमाह-'उव' इत्यादि। तथा त एव दिक्कालादयो विशेषा उपचारमात्रभिन्नाः, सामान्यपरिणामात् , तथा गुणादयो भ्रमरकोकिलाङ्गारगवलवर्णकादयः उपचारमात्रभिन्नाः, तद्ग्रहेऽपि कस्यचिद्विशिष्टगुणग्रहणात् , प्रक्रमभावार्थमाह-तह 'कार्य' पटद्रव्यं 'कारणात् तन्तुद्रव्यसमूहाद् भिन्न-अर्थान्तरं संज्ञासंख्यालक्षणप्रयोजनादिभेदात्, तथा च तन्तुष्वन्या सज्ञा, अन्या
ARRORRO