________________
कारणनि
विशेषाव कोट्याचार्य
वृत्तौ ॥६२९॥
PORANG
आह-एतदप्युत्सिद्धान्तं, काणादतन्त्रविपर्ययत्वात् १, उच्यते, उक्तमत्र भावा(नैवा)चार्येण परमतमनुश्रियते दु:श्लिष्टत्वादन्यनिरपेक्षनैगमनयस्यैकान्तभेदवादित्वात् । तथा च प्रसङ्गतस्तन्मतोपदर्शनायाह-'वेमा' इत्यादि । 'केसिंचित्ति इह काणादानां तन्तवः
रूपण | पटस्य समवायिकारणं, एतावन्मात्रे विगानाभावः, यत्र विप्रतिपत्तिस्तदाह-'वेमादयः' वेम आदिर्येषामिति समासः, आदिशब्दात्तज्जातीयमतज्जातीयं च तुरीन्द्रियकालात्मप्रदेशादि परिगृह्यते, ते वेमादयः 'निमित्तं'निमित्तकारणं संयोगनिमित्तमात्रन्वाद् , अतत्का
NG||६२९॥ रणाश्रितत्वादित्यभिप्रायः, तथा संयोगाः-तन्तुगुणास्तन्तुधर्मा असमवायिकारणं, पटस्य, कारणद्रव्याश्रितत्वाद, तथाचाह-ते तन्तुसंयोगा येन कारणेन तन्तुधर्माः, तन्तुधर्मा एव तस्मादमी निमित्तकारणाद् भिद्यन्ते पटाच्च, कारगद्रव्याश्रितत्वात् , कारणकार्य
योश्च भेदाद्, इह तन्तुषु पट इत्यभ्युपगमात् ,आह च-पडो य दव्वंतरं जेण'त्ति येन तन्तुसंयोगाश्रयेभ्यस्तन्तुभ्यः पटो द्रव्यान्तरं ॐ वर्तते, द्रव्याणि द्रव्यान्तरमारभन्ते गुणाश्च गुणान्तरमिति सिद्धान्तात् ॥२-३।। ततः किमित्यत आह-'दव्य'मित्यादि । अस्य भावना
द्रव्यं पटः, द्रव्यादन्यद् द्रव्यं द्रव्यान्तरं द्रव्यान्तरस्य धर्मो द्रव्यान्तरधर्मस्तस्य-संयोगशुक्लतादेव, यतो द्रव्यान्तरे-पटलक्षणे | समवायः संश्लेष इष्यते, तथा च न तन्तुसंयोगाः पटे समवैष्यन्ति द्रव्यान्तरधर्मत्वात् , शीतादय इव तेजसि, अथाभ्युपगममात्र तु संयोगाः पटसमवायिन इष्येरन् ततः र्णमापद्यते, कुतः ? इत्याह-यस्मात्तन्तुसंयोगानां पटात्मनि 'समवायंमि'त्ति समवायित्वे संश्लेष इष्यमाणे कारणकायेंकता पामोति, परस्परं गुणसमवायित्वात्तन्तुस्वरूपवत् पटस्वरूपवद्वा, चः समुच्चयार्थः, तस्मात् कार्यकारण| यो दोऽस्य, अथवा गुण एवायमाहतस्य यदनेनानयोर्भेदः प्रतिपन्नः, किन्त्वियं बाधा यदयमनयोरभेदमपि न प्रतिपद्यते, तदधुना | तदप्रतिपन्नमभेदं तदीयोपपत्तिभिरेव प्रतिपिपादयिषुराह-'जहे त्यादि । भो भद्र ! यथा योगास्तन्तुधर्मास्त्वयेष्यन्ते तथा पटोऽपि
AGRAARAUCRACAGGAGAN