________________
66
विशेषाव ०
॥६२८॥
भूतानां घटतद्रूपादीनां कारणकार्यभूतानां वा तन्तुपटादीनामाश्रयाश्रयिभूतानां वाऽपृथग्वर्त्तिनां द्रव्यगुणकर्मणामिहप्रत्ययहेतुः अस्य कोट्याचार्य चास्तित्वमेवं तैः कल्प्यते - किल तन्तुषु तन्त्वाकारैव धीः, पटे तदाकारैव एतद्बलेन त्विह तन्तुषु बुद्धिरित्यत आहु:-' इहेती' त्यादि, वृत्तौ आह-यद्येवं तत्कथं भाष्यकारेणोत्सिद्धान्तं व्याख्यायते येन विपर्यय उक्तः 'पडे जेणे' त्यादि १, अत्र समाधिः - नैवाचार्येण परमतमुप| जीव्यते श्रीमद्भद्रबाहुस्वामिमताभिज्ञत्वेन, यथाऽवस्थितवस्तुगतिव्याख्याप्रवृत्तत्वात्, आह- यद्येवं तेनैव कथमुक्तं प्राक् समवाय्यसमवायीति, उच्यते, अन्यनिरपेक्षनैगमनयदौः शील्यप्रकटीकरणाभिप्रायेण, अतस्तेषामिह तन्तुष्वित्यादि भणतां कारणात् कार्यस्यान्यश्वमाधारवृच्या विवक्षितत्वात् न च तयोरन्यत्वमेवानन्यत्वादपि अस्यांशस्य प्रसाधनार्थं सुष्ठुच्यते गुरुणा || २५९६-२६०१ ॥ समवायिकारणं तं तओ पडे जेण ते समवयन्ति । न समेइ जओ कज्जे वेमाइ तओ असमवाई || २६०२ || वेमादओ निमित्तं संजोगा असमवाइ केसिंचि । ते जेण तंतुधम्मा पडो य दव्वंतरं जेणं || २६०३।। दव्वंतरधम्मस्स य न जओ दव्वन्तरम्मि समवाओ। समवायम्मि य पावइ कारणकज्जेगया जम्हा || २६०४ ॥ जह तंतृणं धम्मा संजोगा तह पडोऽवि सगुणव्व । समवायाइत्तणओ दव्वस्स गुणादओ चेवं ॥ २६०५ ॥ अभिहाणबुद्धिलक्खणभिन्नावि जहा सदत्थओऽणन्ने। दिक्कालाइविसेसा तह दव्वाओ गुणाईआ || २६०६ ॥ उवयारमेत्तभिन्ना ते चेव जहा तहा गुणाईआ । तह कज्जं कारणओ भिन्नमभिन्नं च को दोसो ॥ २६०७ || 'समवायी'त्यादि पुव्वद्धं, 'ण स' इत्यादि पच्छद्धं । यतश्च वेमादि कार्ये, न समवैत्यतोऽसमवायि, तथा च न पटे वेमादेरनुवेधो दृश्यते, तन्तूनामिव, अपेक्षाकारणमिदमित्यर्थः, तस्मात्समवायिकारणं तन्तवोऽसमवायिकारणं वेमादीत्यार्हतसिद्धान्ते स्थिते
कारणनिरूपणं
॥६२८ ॥