________________
कारणनिरूपणं
॥६२६॥
विशेषाव
घटानुत्पत्तेः सर्व कारणमित्योघार्थः ॥९५॥ अर्थतत्क्रमशो भाष्यकृद्वयाचिख्यासुराह-'तहव्वेत्यादि ॥ यदात्मक कार्य तत्तद्र्व्यकोट्याचार्य कारणं, न यदात्मक कार्य तदितरद्वेमादि, अजन्मयपटदर्शनात् । अत्राह-'जई'त्यादि । यदि तन्त्वादिनिमित्तकारणं तस्यैव पटस्य वृत्तौ हेतुः मतं-अभीष्टं तन्ननु कार्यकारणयोरेकत्वं प्राप्तं, तन्तवः पट एवेत्यसाधारणत्वात् , तन्तूनामेव पटीभवनादित्यर्थः । का नो हानि
| रिति चेत् , उच्यते-न च तद्युक्तं, कार्यकारणयोरेकत्वं प्राप्यते, न वामात्रेण, यतस्ते कार्यकारणे अभिधानादिभिन्ने वर्तेते, ॥६२६॥
एतदुक्तं भवति-अभेदे तयोरिष्यमाणेऽयं दोषः, न तन्तवः पटकारणमभिन्नत्वात् तन्तुस्वरूपवदित्ययं चाभेदवादिन एव दोषः, अस्मत्पक्षस्य युक्तत्वात् , तथा च नाना कार्यकारणे भिन्नाभिधानत्वात् गवाश्ववदिति, एवं परेणापाक्षिकपाक्षिके प्रयोगद्वये कृते सूरिराह-'तुल्लोऽयमित्यादि ॥ इह भवतः प्रथमप्रयोगेणैकत्ववादिने दोष ददतो भेदेऽपि कार्यकारणयोस्तुल्य एवोपालम्भः, | तथाहि-न तन्तवः कारणं, पटस्येति शेषः, भिन्नत्वाद् घटस्येवेत्यनैकान्तिक आद्यो हेतुः । आह-तन्तूनां पटकारणत्वं दृष्ट, लोक| सिद्धत्वात्सिद्धं ?, उच्यते, सत्यं सिद्धं, कारणमात्र, तद्भिन्नानामभिन्नानां चैकान्तेनेत्येवं न संवेदयति लोको, युक्तयन्वेषणविमुखत्वात्तस्य, भिन्नाभिन्नास्त्वमी कारणमिति वक्ष्यामः । इयं प्रथमपरोपन्यस्तहेतुविचारणा । द्वितीयस्याथाह-'एगंतेवी'त्यादि पच्छद्धं, अनानाकार्यकारणे भिन्नाभिधानत्वाद् इन्द्रार्थवत् , अतोऽनया गाथया पाश्चात्या गाथाऽभिज्वलयन्ती सती विध्यापितेति भावना, तस्मात्कार्यकारणयोर्भेद इति सिद्धान्तः, कुत इत्यत आह-'ज'मित्यादि ॥'यत्' यस्माद् 'वस्तुनों द्रव्यपर्यायिणः, कारणस्येत्यर्थः,
'कार्यकारणे' मृत्पिण्डकुटलक्षणे पर्यायौ वर्तते, विवक्षावशोपनयात् , ततः किमित्यत आह-तौ च यतस्ततोऽन्यावनन्यौ च लती मतौ, तत्रान्यो सज्ञास्वतत्त्वप्रयोजनमतिभेदादिभिः, तत्र मृदि-मृत्पिण्डे तत्सञ्ज्ञा, घटे तत्सञ्चेत्येवमादि, अनन्यौ तु सत्वज्ञेय
ROLADAKAASAX