SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ विशेषाव कोट्याचार्य वृत्तौ ॥५०५।। द्वितीयगाथापादेकदेशस्तूपसंहारार्थो, यदेवं तत्कर्मेति, तत्रैतत्स्याद् अफलत्वगमकोऽप्ययं हेतुः कृष्यादिक्रियान्तरव्यभिचारदर्शनात् तच्च न, फलवच्चे सति तदारम्भप्रवृत्तेः, अपिच-तत्राज्ञानिनो व्यभिचारो दृश्यते, स च दानादिक्रियास्वपि तुल्य एवेत्यदोषः । तत्रैत|त्स्यात्-चेतनक्रियारूपत्वाख्यो हि हेतुर्दृष्टफलास्वेव क्रियासु प्रवर्त्तते इत्यतो दानादिक्रिया अपि दृष्टमनःप्रसादमात्रफलाः सेत्स्यन्ती| तीष्टविपर्ययसाधनाद्विरुद्ध इति, आह च-तं चियेत्यादि । यदि बुद्धिर्भवतः - तदेवानुभविकं मनःप्रसादादिमात्रं दानक्रियायाः फलं, नान्यद् अदृष्टमिति । तो - 'किरिये त्यादि ॥ क्रियासामान्यात् कारणाद् यत्फलमस्या अपि दानक्रियाजन्यमनःप्रसादक्रियायास्तन्मम कर्म मतमिति न विरुद्धः, यत्किविशिष्टमित्यत आह- 'तस्स' त्ति तस्य कर्मणः सुखदुःखपरिणामरूपं यतः - यस्मात् फलं भूयो भूयोऽभिजायते ततस्तददृष्टं कर्मेति, स्थापना - दानक्रिया, मनःप्रसादक्रिया, ततः कर्म, आह-यद्येवं ततो यदुक्तं अनन्तरगाथायामुपसंहरता 'दानादिफलं' ति, यच्च दानादिफलं तत्कर्मेति तद्वयाहन्यते, व्यवहितत्वात्, उच्यते, तन्न, कुतः ? कार्ये कारणोपचाराददोष | इति गाथार्थः || २०९४-९५ ।। पराभिप्रायमाह - 'होज्जे 'त्यादि ॥ अक्षरघटना - 'होज्ज जइ बुद्धि' त्ति भवेद् यदि बुद्धिर्भवतो यदुत 'मनोवृत्तेः' मनःप्रसादक्रियाया दानादिक्रियैव फलं, परावृच्येति शेषः, ततश्चादृष्टफलाभाव इत्यभिप्रायः, कार्यमेव स्वकारणस्य कारमिति भावना, उच्यते - तन, निमित्तत्वाद् घटवत्पिण्डस्य, यद्यस्य निमित्तं न तत्तस्यैव फलं यथा मृत्पिण्डः कुम्भस्य, तथा च दानक्रियेति तत्फलं नासाविति, नैमित्तिकं तूपलभ्यते, पिण्डस्य घटवत्, तस्मात्क्रियाफलभावतोऽस्तीत्यादि प्रतिष्ठितम् ॥२०९६ ॥ अथ स दृष्टान्तच्छलितमतिराह - ' एवंपी' त्यादि । एवमपि क्रिया दानरूपा मनःप्रसादरूपा वा दृष्टफलदेव-प्रसिद्धफलसाधिकैव, एकदा मनःप्रसादादेव तीव्रतीव्रतरमनः प्रसादमात्रोत्पत्तिः, अनभिमतप्रतिषेधमाह - 'न कर्मफला' न कर्मजनिका प्रसक्ता तव, न %%%%% क्रियाया अष्टफलता ॥५०५॥
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy