SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ विशेषाव ० कोट्याचार्य वृत्तौ ॥६१९॥ *36-196 'सम्म' इत्यादि ॥ सम्यक्त्वचारित्रे औपशमिकोऽयं, किंविशिष्टः १ - सादिः सान्तः, चः पूरणार्थः । दारं । क्षायिको नवभेदः, तेषां | विभागमाह - दानलाभ भोगोपभोगवीर्याणि चेति लब्धिपञ्चकं, चारित्रं च षष्ठं, एप क्षायिकैकदेशः सादिसपर्यवसानः, 'सिद्धे नोचरित्राचरित्री'ति वचनात् ॥७४॥ 'सम्मत्ते'त्यादि । सम्यक्त्वज्ञानदर्शनानि सादिरपर्यवसानः सिद्धत्वं च । दारं । क्षायोपशमिकं तु मत्यादिचतुष्टयं प्रथमः । 'मती'त्यादि प्रथमद्वितीयपादौ तत्र मत्यज्ञानं श्रुताज्ञानं च भव्यानां तृतीयः, एते एवाभव्यानां चतुर्थः । 'सच्चो' इत्यादि, सर्वः पुद्गलास्तिकायः प्रथमो भङ्गः पारिणाभिके भावे । 'भव्यत्त' मित्यादि ॥ भव्यत्वं तु तृतीयः अनादिसपर्यवसितः, अतोऽवसीयते सर्वे भव्याः सेत्स्यन्ति, जीवाभव्यत्वादि चरमो भङ्गः, तुशब्दाद्भव्या अपि, यदि न सर्वे सेत्स्यन्ति ततश्वरम एव भङ्गस्ते, एवमयं भावानां कालो वर्त्तते, भावावस्थानतोऽनन्यत्वेन स्वपर्यायत्वात् । तदेवं 'दब्वे अद्ध' इत्यादि नत्र द्वाराणि प्रपञ्चय येनाधिकारस्तमाह नियुक्तिकार : - 'एत्थ 'मित्यादि । अत्र पुनरनेककालसमूहमध्येऽधिकारः - प्रयोजनं प्रमाणकालेन सप्तमेन भवति ज्ञातव्यः, अत्र " चोएति पुरा भणियं, भावे पगयं तु होइ भावेणं । एहि पुग जं भगहा, पमाणकालेण अहिगारो || १ || तं पुन्वावर विह पगयधिगाराण णिन्विसेसाओ । तं नो खाइयकाले, पमाणकाले य पुव्वण्हे ॥ २॥ जं कहियं सामइयं महद्द महावीरवद्धमाणेणं । अहवेसोविय भावो, तत्थ तुसद्देण संगहिओ ||३||” उक्तं कालद्वारं चतुर्थ, अत्र क्षेत्रनिर्गमाभिधित्सुरज्ञप्रश्नद्वारेणोपतिष्ठते- 'खेत्तम्मि कम्मि' नानाप्रकाराणि द्यानानि श्रूयन्ते तत्कस्मिन् क्षेत्रे पुण्यभाजि भाषितं जिनवरेणेदं सामायिकं मुमुक्षुभ्यः सच्वेभ्यः, तथा प्रमाणकालस्यापि बहुत्वात् पृच्छति कस्मिन् काले १ इति । अथ कालान्तरङ्गदर्शनद्वारेणोत्तरमाह - ' वइसाहेत्यादि । वैशाखशुदिएकादशी पूर्वाह्णे - प्रथमपौरुष्यां महासेनवनोद्यानेऽनन्तरं तत्प्रथमतया सामायिकनिर्गमः संवृत्तः, शेषं क्षेत्रजातमङ्गीकृत्य परम्परं सामा भावस्थितिभंगा: | ॥६१९॥
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy