________________
विशेषावक कोट्याचार्य वृत्ती
भावस्थितिभंगाः
॥६१७॥
॥६१७॥
*RSARAN
| एवं विपर्ययेण हानिरपि मता, कस्मिन् काले इयं वृद्धिर्हानिर्वा ज्ञेया ? इत्याह-'अयणदिणविभागओं उत्तरायणदिवसविभागेन वृद्धिः, दक्षिणायनदिवसविभागेन हानिः, रजन्यां तु विपर्ययः । अथैतस्यैव मुहर्तद्वाविंशत्युत्तरशतभागस्य वृद्धौ हानौ च करणोपायप्रदर्शनार्थमाह-'उक्को"इत्यादि।। 'उक्कोसजहण्णाणं पोरिसीणं' उत्कृष्टजघन्ययोः पौरुष्योः 'जयन्तराल' मिति यदपान्तराले मध्ये कालखण्डं, सार्द्धमुहूर्तप्रमाणं, 'तं तेसीयसयविभत्तं'ति तत् त्र्यशीतशतविभक्तं, एतदुक्तं भवति-त्र्यशीतेन शतेन तस्माद्भागे हुते यल्लब्धं बावीसुत्तरसयभागोत्ति भावना, किमत आह-बुड्ढि जाणाहि उत्तरायणे, हाणि जाणाहि दक्षिणायणेत्ति ॥ अथ वर्णकालनिरूपणायाह - ___ पजायकालभेओ वण्णो कालोत्ति वण्णकालोऽयं । नणु एस नामउच्चिय कालो नानियमतो तस्स ॥२५६९॥ पंचण्हं वण्णाणं जो खलु वण्णेण कालओ वण्णो। सो होइ वण्णकालो वणिजइ जो व जं कालंनि.७३१॥ __'पज्जाए'त्यादि । वर्णश्चासौ कालश्चेति वर्णकालः, स चायं, पर्यायश्चासौ कालश्च पर्यायकालः, स एव भेदः पर्यायकालभेदो, रूपाद्यपेक्षया, 'वण्णो कालोति, कृष्णो वर्ण इत्यर्थः, आह-नन्वेष नामत एव कालो, न वर्णतः कालः, कालमात्रान्तत्वाद, अथवाऽयं वर्णतो लोकत एव रूढः, किमुक्तेनानेन ?, उच्यते, न, अनियमतस्तस्य, तथा ह्यसावन्यत्रापि समयमरणादौ वर्त्तते, अतस्तद्वयवच्छेदार्थमयं वर्णकाल उच्यते । उक्तश्च नियुक्तिकृता-'पंचण्ह'मित्यादि ॥ अथ भावकाल उच्यते, तत्र भावा औदयिकादयस्तेषां स्थिति वकालः, स च त्रिपश्चाशद्भेदः । सा चामीषां स्थितिश्चतुर्धति ॥६९-७०॥ आह च