________________
देशकालादयः
॥६१५॥
४ यस्य पुरुषस्य यो यदाऽवसरः कार्यस्य-शुभाशुभस्य सोपायं स तस्य देशकालोऽभिधीयते, यथा भिक्षाचरस्य भिक्षावेला देशकालः, विशेषाव०
पर्यायानाह-'देसोऽवसरो थक्कोति, स च द्विधा--प्रशस्तो प्रशस्तश्च, तत्र तावत्पशस्तोदाहरणम्-'निधू'इत्यादि । रन्धनपरिसमाप्तौ कोव्याचार्य
निधूमं ग्रामं दृष्ट्वा ज्ञायते जाता भक्ष्यस्य 'हरहरा' प्रस्तावः, तथा पानीयवाहकमहेलास्तूपं चागडादि शून्यं नीचं च काकान् वृत्ती
| गच्छमानान् दृष्ट्वा । अप्रशस्तमाह-'णी'त्यादि । निर्माक्षिकं मधिति, तस्येदानीं ग्रहणप्रस्तावः, एवं प्रकटो निधिः, एवं खाद्यका॥६१५॥ पणः- कुल्लूरिकापणः शून्यः, तथा या चाङ्गणे प्रसुप्ता प्रोषितभर्तृका मत्ता च, तस्या इदानीं ग्रहणं प्रति प्रस्तावः, आसवमदेनास्वतपत्रीकृतत्वात् । दारं ।। अथ कालमाह
कालोत्ति मयं मरणं जहेह मरणं गउत्ति कालगओ। तम्हास कालकालो जो जस्स मओस मरणकालो॥२५६२॥ कालेण कओ कालो अम्हं सज्झायदेसकालम्मि । तोतेण हओ कालोअकालिकालयं करतेणं॥नि.७२९॥
अद्धाकाल विसेसो पत्थयमाणं व माणुसे खित्ते । सो संववहारत्थं पमाणकालो अहोरत्तं ॥२५६४॥
'कालोत्ती'त्यादि । अत्रैकः कालशब्दः प्राङ् निरूपितः, कलनं काल इत्येवं, अपरस्तु सामयिकत्वान्मरणार्थों वर्तते, तथा |चाह-'काल इति मरणं मतं' काल इति मरणमुच्यते, यथेह लोके मरणं गतो देवदत्तः कालगत इत्युच्यते तस्माद्यो यस्य मरणकालो मतः स तस्य कालकालो भण्यते । 'कालेणे'त्यादि, कालेन कृतः कालः-कृतं मरणं खाध्यायदेशकाले ततोऽनेन 'हतः' भग्नः 'काला' खाध्यायकालः 'अकाले अप्रस्तावे 'कालं कुर्वता' मरणं विदधता । दारं । प्रमाणकालमाह-'अद्धा इत्यादि । इह मानुषक्षेत्रे | अर्द्धतृतीयेषु द्वीपसमुद्रेषु अद्धाकालस्य-आदित्यबिम्बभ्रमणक्रियोपलक्षितस्य प्राग्व्यावर्णितस्य विशेषः-कश्चिद् भेदो यः स प्रमाणका
RECRUARRIOR