________________
विशेषाब०४ अयमेव संनिहितो देहः, गण्डच्छेदसाध्यत्वेनायमपि देहः तथा, अन्यथा चिकित्सायाः कर्तुमशक्यत्वात्, तथा साध्यनिदानाश्रयत्वाद्,
देशकालाकोट्याचार्य अस्य हेतोः भावार्थः-साध्यं साध्यविपाकं तिलतैलं, साध्यं च तन्निदानं च २, निदानं कारणं, तस्याश्रयश्च, तत्वाद्, रसवीर्यविपाकवृत्ती प्रत्यासत्तिमत्वादित्यर्थः, इह यो यः साध्यकारणस्याश्रयः स स उपक्रमयोग्यस्तद्यथाऽयमेव देहः, शेषं प्राग्वत् , तथा सोपक्रमं कर्म
| 'देहादि भावाओ'त्ति देहादौ भावात् , स्वपरात्मनि भावात् , तथा च कर्म देहे वर्त्तते आन्मनि च, इह यद्यदात्मनि वर्त्तते तत्तत्सोप॥६१४॥
४॥६१४॥ क्रमं यथाऽयमेव देह इति, शेष प्राग्वदिति दृष्टान्तसिद्धिः । अत्रैव निदर्शनगर्भमुपपत्त्यन्तरमाह-'किंची'त्यादि ॥ 'किञ्चित्' 'फलं' | आम्रादि 'अकालेऽपि' पाककालादारतोऽपि 'पाच्यते' विक्लेदं नीयते, गरौपलालस्थगनादिनोपायेन, किश्चित्तु तत्रस्थमेव कालेन | पच्यते एव, यथेदं तथा कर्मापि 'पाच्यते' उपकाम्यते दण्डाभिघातोपायेन, कालेन विपच्यते चान्यत्, विशिष्टांश्च कालोपक्रमहेतून विहाय विपाककालेनैवात्मना विपाकमागच्छतीति भावना । दृष्टान्तान्तरमाह-'भिण्णो जहे'त्यादि । यथेह त्रयाणां पथिकानां युग-18 पत्प्रस्थितानां तुल्येऽपि पथि त्रियोजनतया गतिविशेषात्तीवमध्यमन्दलक्षणचारभेदा भिन्नः कालः-एकद्वित्रिप्रहरलक्षणः, यथा वा इह | शास्त्रे व्याकरणादौ ग्रहणकालो द्वादशसंवत्सरलक्षणो मतिमेधाभेदा भिन्नो दृष्टः, तथा किमित्यत आह-तहेत्यादि । तथास्त्र | तुल्येऽपि कर्मणि द्रव्यतया परिणामादिक्रियाविशेषात् तीव्रतीव्रतरपरिणामबाह्यसंयोगविशेषेण भिन्नोऽनुभवनकालः कर्मणः, कथमित्याह| 'जेट्ठो'इत्यादि, ज्येष्ठो निरुपक्रमस्य यथावद्धवेदनकालः, मध्यमस्तस्यैव तथाविधतपश्चरणवेदनेनोपक्रामणे, जघन्यः क्षपकश्रेण्यनु| भवनकालः शैलेश्यनुभवनकालो वा, तथाविधपरिणामबद्धस्य तत्तत्परिणामानुभवनेनान्यथाऽप्यविरोध इति । 'जह वेत्यादि स्पष्टा, नवरं द्वयोरपि दृष्टान्तयोरुभयथाऽपि दाह्यं शोध्यं च तुल्यम् । 'भागो वेत्यादि कंठं ॥ अथ देशकालशब्दार्थमाह-'जो'इत्यादि ।
AISHRARROERA
RRRORATOR