________________
विशेषाव कोट्याचार्य वृत्तौ
॥ ६००॥
'जं च'ति यस्माच्च अशरीरममूर्त्तं च सन्तं, काक्वाधिष्ठन्तं, ततश्चानेन वसनेन 'तं संतमाह 'ति तं संसारिणो विपर्ययं सन्तमाह, अविध्यातप्रदीपकल्पोपममाह, वसनस्य सद्धर्मात् ते प्रियाप्रिये न स्पृशत इति प्रकृतं वाऽशब्दोऽयं विकल्पार्थः, ततश्च वासद्दयोः सदेहंपि वीतरागं जोगिणं ण फुसेज इट्टाणिट्ठप्पियापिय विसेसा, योगी परमशुक्लध्यायी, तस्मादन्यथा तेऽभ्युपगमविरोधः || 'वा वेत्यादि ॥ वाशब्दः प्रकारान्तरव्याख्यानार्थः, 'अशरीरं वावसन्त' मित्यष्टावक्षराणि भाव्यन्ते, तत्र 'वाव'ति निपातः, ततो गाथायां 'वाव' इति निपातो यः सः किमित्यत आह-वासदत्थो, विकल्पार्थ इत्यर्थः, ततश्चानुपूर्व्यां सन्तमिति भवन्तं प्रियाप्रिये न स्पृशत इति भावना, कारणाभावाद्, विकल्पात् सशरीरमपि वीतरागम् । 'बुज्झाऽवत्ति वे'त्यादि, वाशब्दः प्रकारान्तरव्याख्यानार्थ एव, अशरीरं वाडव सन्तमित्यष्टावक्षराणि भाव्यन्ते, तत्र अशरीरं वा अव 'अव रक्षणगतिप्रीत्यादिषु' गत्यर्था धातवो ज्ञानार्था अपि भवन्ति, ततश्व हे सौम्य ! 'अव'त्ति अवबुध्यस्व यदुत सन्तं - ज्ञानादिविशिष्टं प्रियाप्रिये न स्पृशतः तदस्य स्पर्शनस्य च सद्धर्मत्वाद्, अन्यथा प्रतिपत्तावभ्युपगमविरोधः || आह एवमक्षरकुट्या मयाऽपि स्वार्थसिद्धये व्याख्यानान्तरं कर्त्तुं पार्यत एव नहीयं भवतैव केवलेन क्रेण्या गृहीतेति । आह च- 'न' इत्यादि । तत्र 'अशरीरं वा वसन्त' मित्येषाऽक्षररचनार्थतो निरीक्ष्यते, अत्र अवसन्तमिति स्थिते न वसन्तं अवसन्तं, तस्मान्नास्त्यसौ अवसनात् व्योमपुष्पवद् इत्यनेकान्तः १, उच्यते, न, अस्मद्वयाख्यानां सोपपत्तिकत्वेनावाधितत्वात्, कुतोऽबाधितत्वं चेत् 'असरीरगहणाउ'त्ति अशरीरग्रहणात्, न शरीरी अशरीरी, अब्राह्मणन्यायेन तत्रैतत्स्याद् - अशरीरित्वलक्षणस्यैवाभावस्य समर्थनार्थमवसन्तमिति ब्रूमोऽनुवादार्थ, न चानुवादेन पुनरुक्तदोषोऽस्तीति, उच्यते, मैत्रं प्रतिमंस्थाः, 'फुसणे' त्यादि पच्छद्धं, यतः स्पर्शनाविशेषणं प्रियाप्रिये न स्पृशत इति मतं-अभीष्टं, सोऽभावः, एवं तव यदि मतिस्तन्न सद्विषयमेव, न निर्वाणविषयं, अपि
स्वाभाविक सुखसिद्धिः
॥६००॥