________________
विशेषाव ० कोट्याचार्य वृत्तौ
॥५९७॥
न
"निर्जितमदनाना " ( प्रश० ) मित्यादि । अथवाऽन्यथा परमार्थसुखस्वरूपत्वमात्मनः प्रदर्शयन्नाह - ' जहे 'त्यादि ॥ यथा वा स्वभावेनानन्तज्ञानात्मकोऽयं जीवः तस्य यथा ज्ञानोपघात्यावरणं पृथ्वीकायिकादारभ्य तस्य च तथा वृत्तान्तस्य यथा करणं इन्द्रियं क्षयोपशमाद्यनुग्रहकारि, प्रबन्धिबन्धकपललौघविच्छिद्रताकारि, यावत् सर्वशास्त्रज्ञत्वं, तथा च तस्य सर्वावरणक्षये शुद्धिः, केवलज्ञानाविर्भाव इति ॥ ८६-८७॥ दान्तिकमाह - 'तह' इत्यादि ।। ।। तथा प्रकृत्या निरुपमसुखात्मको जीवः, तस्य चोपघातकर्त्ताऽयं नरकगत्यादिः, | पुण्यमनुग्रहकारि यावदनुत्तरोपपातिकदेवगत्यादिः, सर्वक्षये सकलसौख्यमस्य यत उक्तं - "सुरगुणसुख" मित्यादि || ' अहवे' त्यादि स्पष्टा ॥ अपि च- 'साता' इत्यादि ॥ पुण्यापुण्ये दुःखं, तत्क्षये च यतः पारमार्थिकं सुखमात्मलाभं लभते तेन देहेन्द्रियेषु सत्सु दुःखं, तदभावे तु सुखं एतदुक्तं भवति तस्य देहेन्द्रियाधाराभावात् तदाधेयं सुखं नास्ति, कुड्यविगमे चित्रवत्, स्वाधारं त्वस्त्येव सदाश्रयत्वाद् घटरूपादिवत् ॥ ८८- ९० ॥
जो वा देहिंदियजं सुहमिच्छइ तं पडुच्च दोसोऽयं । संसाराईयमिदं धम्मंतरमेव सिद्धिसुहं ॥२४९१॥ कहमणुमेयंति मई नाणाऽणाबाहउत्ति नणु भणियं । तदणिचं णाणंविय चेयणधम्मोत्ति रागो व्व ॥ २४९२ ।। कयगाइ भावओ वा नावरणाऽऽबाहकारणाभावा । उप्पायट्टिइभङ्गस्सहावओ वा न दोसोऽयं ।। २४९३ ॥ नह वह ससरीरस्सप्पियऽप्पियावहतिरेवमादि व जं । तदमोक्खे नासम्मि व सोक्खाभावम्मि व न जुत्तं ॥ नो असरीरो चिय सुहदुक्खाइं पियऽप्पियाइं च । ताइं न फुसंति नहं फुडमसरीरंति को दोसो ? || २४९५ ॥ वेपयाण य अत्थं न सुट्टु जाणासि ताण तं सुणसु । असरीरव्ववएसो अघणो व्व सओ निसे हाओ ॥ २४९६ ॥
स्वाभाविक सुखसिद्धिः
॥५९७॥