SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ मुक्तानां विशेषाव० कोट्याचार्य वृत्तौ ज्ञानानाबायता सिद्धिः ॥५९४॥ ||५९४॥ ARROTECARE | भवतो, धर्मिस्वरूपविपरीतसाधनात्, तथाहि-अजीवो मुक्तो निष्करणत्वादाकाशवत् । परः स्वार्थसिद्धिं मन्यमान आह-भवतु तन्नाम, नामेत्यभ्यनुज्ञायां, अयमस्य परस्याभिप्रायो-विरुद्धो ह्यसति बाधने-भवति, मम विह भवद्विरुद्धापादने सिद्धसाध्यता, न बाधाऽस्तीति | निर्मीता वयमिति, अथ तद्वयतिरिक्तोऽन्यः कश्चिदाह-ननु चैवमाहतस्य परस्मै विरोधमभिदधतः स्वयमभ्युपगमविरोधः, तस्माद्बाधने सति कथं विरोधश्चोद्यते ?, नणु विरुद्धोऽयं 'जमजीवयाऽवि पावइ एत्तोच्चिय'त्ति, ननु “सर्वत्रानैकान्तिकविरुद्धेषूभयसिद्धस्य परिग्रह'इति न्यायलक्षण (०णात् , न च मुक्तानामजीवता संमता, न पक्षिणः) त्रासवदा (१)न च भवतोऽयं विरुद्धःप्रयोगः स्वतः सिद्ध इत्यन्यतरासिद्धो विरुद्धः, यतः परेणैवं चोदिते एतस्याः खल्ववतारो युज्यते न स्वयं चोदिते विरुद्धे, आह-तत्कथमेतद् गमनीयं ?, उच्यते, अत्र श्रीमत्क्षमाश्रमणपूज्यपादानामभिप्रायो लक्षणीयः, तथाहि-परस्यापि जीवपदार्थोऽजीवपदार्थश्चोभयं विद्यते, जीवोऽपि संसारी मुक्तथेति द्वेधा, तस्य ह्यजीवत्वापादनं मूरिणा क्रियमाणं परस्यापि विरुद्धं, तस्यैकान्तिकवादित्वात् , अनेकान्तवादित्वं चानिष्टं, पदार्थसंकरापत्तिभयाद् अतस्तस्या जीवत्वमिच्छतोऽभ्युपगमविरोधतो न सिद्धसाधनं भवति, तदेवं स्थिते यच्चोक्तं परेण 'भवतु तन्नामेति साऽस्य | मूढता, अतस्तन्मूढताप्रख्यापनार्थमाहुः पूज्याः। 'दव्वा'इत्यादि ।। आर्हतानां तु सर्व विषयानकान्तवादिनां मुक्तोऽपि स्याजीवः स्यादजीव इति नाभ्युपगमविरोधः, नयवादान्तरमताश्रयणात्, ततश्च युक्तमेवार्याणां स्वतो विरुद्धचोदनं, असतो बाधनात्, परस्मै च जीवपदार्थस्याजीवप्राप्तितोऽभ्युपगमविरोधाख्यानात् ।कदाचित्परः सर्वात्मगुणहानेमुक्तत्वप्राप्तावजीवत्वमेवेच्छेत् तत उच्यते-'दव्वा'इत्यादि, द्रव्यत्वं चामूर्त्तत्वं चेति द्रव्यामूर्त्तत्वे ताभ्यां स्वभावजातिस्तस्यास्तस्य दूरं प्रकृष्टं वैपरीत्यं भवतोऽपि, कस्मादित्याह-न यस्माजात्यन्तरगमनं युक्तं, भावानां प्रतिनियतस्वभावत्वात् , दृष्टान्तमाह-नभस इव जीवत्वं, यथा हि नभसो द्रव्यामूर्तस्वभावजाते वैप
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy