________________ विशेषाव कोव्याचार्य वृत्ती // 91 // नयनमनसोरप्राप्यकारिता // 91 // ROCHAKALASSICASSOS न्यं पुरुषस्य स्वं रूप'मिति वचनाद् ,अतोऽवश्यं भोक्तृत्वात् स्वयमात्मा कर्चेत्यभ्युपगन्तव्यं, तच्च सर्वगतत्वे सत्युक्तवन्नोपपद्यत इति प्र करणार्थः, आदिशब्दात्सुखदुःखसंसारादिर्न भवति सर्वगतत्वादाकाशवद्, एवमादि स्वधियोत्प्रेक्षणीयमिति, आह-किमेतावन्मात्रदोषत एवैतद् आहोस्विदन्यतोऽपीत्यत आह-सर्वग्रहणप्रसङ्गदोपतो वा, अस्यायमर्थः-भावमनसः प्राप्यग्राहकत्वाभ्युपगमात् सर्वगतत्वेन च सकलत्रैलोक्यव्यापित्वाद् अतःसर्वपदार्थग्रहणप्रसङ्गतः सर्वस्य सर्वज्ञताप्राप्तिदोषः, सर्वस्य सर्वगतत्वेन सर्वप्राप्तत्वात् पाप्यग्राहित्वाभ्यु| पगमाच्च, न चेत् प्राप्तमपि तत्सर्व गृह्णात्युक्तदोषादत उच्यते-'सव्वग्गहणपसंगदोसातिओ व ति, कोऽर्थः 1, किश्चिदपि मा गृणीयात् प्राप्तत्वात् सकलत्रैलोक्यवत् , प्राप्तत्वे तुल्ये सत्येकं न गृह्णात्यपरं तु गृह्णातीति व्यक्तमीश्वरचेष्टितं, आदिशब्दात् सर्वासर्वदर्शनप्रसङ्गदोषतश्चेति सम्बध्यते, तन्नेति वर्त्तत इति गाथार्थः // 216 // यद्येवं द्रव्यमनस्तर्हि यास्यतीत्यत आह-'दन्व' इत्यादि / द्रव्य| मनो विज्ञात न भवति-द्रव्यमन आलम्बकं न भवति, पुद्गलमयत्वात् , पाषाणवत , अतो गत्वाऽपि किं तत्करोतु, तस्मिन् मेरुशिखरजिनप्रतिमासन्निधाविति गम्यते, नहि तत्तत्र गतं सद् भगवन्तं स्तुतिस्तोत्रादिभिः स्तौति जडत्वाञ्चिन्तामणिरिवेति, तस्मान्न भावमनसो द्रव्यमनसश्च पवनालतन्तुन्यायेन निर्गम इति / अत्र पराभिप्रायमाह-अथ मन्यसे करणभावतः-करणलात्कारणात् तस्य-द्रव्यमनसः तेन-द्रव्यमनसा जीवो'जानीयाद्' अवबुध्येत मेरोः शिरसि जिनप्रतिमाभिषेको वर्तते इति, प्रयोगः आत्मा बहिनिर्गतेन मनसा जानाति करणत्वात् प्रदीपवत्, इति गाथार्थः // 217 // उच्यते-यद्येवं ततः-'करण'इत्यादि, | करणत्वात् 'तनुसंस्थितेन' देहादबहिर्भूतेन जानीयात् स्पर्शनेनेव, अबाह्यकरणत्वान्मनसोऽपीति भावना, अत एव करणत्वादिति | हेतोर्न निस्सरति देहावहिर्मेरुशिखरादिं प्रति स्पर्शनेन्द्रियवत् , प्रदीपस्तु बाह्यकरणमिति गाथार्थः // 218 // तामिदानी हेत्व CAROKAR