________________ 1513 नयनमनसोरप्राप्यकारिता वृत्ती // 9 // विशेषावात्य शयन मरुशखर त्य 'ज्ञेयेन' मेरुशिखरस्थप्रतिमादिना 'मन' अन्तःकरणं 'सम्बध्यते' आश्लेषमाप्नोति, कदेत्याह-जाग्रतो वा स्वप्ने वाऽनुभवकोट्याचार्य सिद्धत्वात, न चैतन्ममैव सिद्ध, यतः सिद्धमिदं लोकेऽपि, यत एवं वक्तारो भवन्ति-अमुत्र मे मनो गतमिति गाथार्थः // 213 // तत्र साधनवाद्याह-'नाणुग्गहो'इत्यादि / नैतदेवं-न मनो बहिनिस्सरति, आलम्ब्यकृतानुग्रहोपघाताभावात् लोचनवदिति, एवं चैतत् | 'सो इहर'त्ति तत् मनोऽन्यथा-प्राप्यकारितायां सत्यां तोयज्वलनावालम्ब्य चिन्तनकाले युज्येत द्वाभ्यामपि-तापाहादाभ्यां, विष॥९ // येण सम्बद्धत्त्वाद , स्पर्शनादिवदिति गाथार्थः // 214 // अत्र हेत्वसिद्धेश्वोदनामुत्पश्यन्नपि सरिरपान्तराल एवेदं विकल्पद्वयमाह'दव्व' मित्यादि / द्रव्यमनो वा ब्रजेत्-मेरुशिखरस्थजिनप्रतिमालम्बनार्थ यायात् भवतः, भावमनो वा ?, ततः किमिति चेत्, अत | आह-जीव एव भावमनो भवति, मनःक्रियापरिणामापन्नत्वात् , अमुमेवाश्रित्याह-'देहव्यापित्वाद् देहिमात्रवृत्तित्वात् न देहाद् बहिमरुशिखरादावपि तत्र 'जुत्तो' तद्भावमनो युक्तं, प्रयोगः-जीवः शरीराद् बहिर्नास्ति अत्रैव तद्गुणोपलब्धेः शरीरसत्ववदिति गाथा| र्थः // 215 // अत्रापान्तराले पराभिप्रायमाह-सव्व' इत्यादि / स्याद् बुद्धिः-नभोवत् सर्वगतोऽयमात्मा, न देहव्यापी, अमृतत्वादा| काशवदिति, आचार्य आह-'तं णति तदेतत्र युक्त्या घटते, कुत इत्याह-कर्बभावादिदोषत इति, कर्तुरभावः कर्बभावः स आदिर्यस्य स भावादिः कर्वभावादिश्वासौ दोषश्चेति कत्रभावादिदोषस्तस्मात् , अयमत्र भावार्थ:-यद्येवं न त_यमात्मा कर्ता, सर्वगतत्वादाकाशवदेव, न ह्यभ्युपगमा एव बाधाय भवन्ति, हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं लिङ्ग सावयवं परतन्त्रं व्यक्तं, विपरीतमव्यक्तमित्यतो निष्क्रियत्वादकवेति चेत् तन्न, तदकर्तृत्वे भोक्तृत्वानुपपत्तेः, भोक्तृत्वस्य चेष्टत्वात् , प्रकृतिकृतं भोक्ष्यते 'प्रकृतिः करोति पुरुषो भुङ्क्ते' इति वचनादिति चेत्, तन्न, अचेतनस्य कर्तृत्वानुपपत्तेघटादिभिरतिप्रसङ्गात् , अचेतना च प्रकृतिः 'चैत