________________ विशेषाव कोट्याचार्य वृत्ती So नयनमनसोरप्राप्यकारिता // 89 // // 89 // COLOSA ASILOSKASSA हेतावाचार्य आह--'डझेज्ज'इत्यादि / चक्षु रविकरादिना पुद्गलधर्मेण 'प्राप्य' आश्लिष्य 'दघेत' भस्मीक्रियेत विह्वलीक्रियेत वा| स्पर्शनमिवान्वयय्येव दृष्टान्तः, इत्यतः को दोषो', नैव कश्चिद्, दृष्टस्य बाधितुमशक्यत्वात् , तथा मन्येतानुग्रहमपि चक्षुः स्पर्शनवदुपघाताभावात् सौम्ये जलघृतवनस्पतीन्द्वालोकने सति, अत्रापि को दोषः // 210 // काममेतत्, किन्तु-'गंतु' मित्यादि / इह हि चक्षुरुत्प्लुत्य-गत्वा रूपदेशमादित्यमण्डलादिलाञ्छितं न पश्यति-नादत्ते, किं ?, रूपमेवेति गम्यते अन्यस्याश्रुतत्वात्, तथा-'पत्तं सयं व' ति स्वयं वाऽन्यतः खतन्त्रतया आगतं सद्रूपं चक्षुर्न गृह्णात्यञ्जनादिभिर्व्यभिचारात् , श्रोत्रेन्द्रियं शब्दमिव, नियमोऽयमिति-एतदत्र नियम्यते वाचो युक्त्या, काक्वा पच्छद्धमाह-'पत्तेण उ' चक्षुर्देशे 'मुत्तिमया' रविकरादिना 'उपघातानुग्रहो' परितापाहादौ भवेतां-स्यातां एतत्स्वभावत्वात् पुद्गलानां, वनस्पत्यादयस्तु दूरस्था एव गृह्यन्त इति गाथार्थः॥२११ // अपिच'जती' त्यादि / यदि तु प्राप्तं सन्तमर्थमक्षि गृह्णीयात्-ततस्तद्गतं रजोमलाद्यपि गृह्णीयात् , तस्यैव परमार्थप्राप्तः, यतश्च न पश्यत्यत इदमप्राप्यकारीति गाथार्थः // 212 // तत्रैतत्स्यात्-प्राप्यकारि चक्षुः आवरणात् स्पर्शनवत् , न, मनसाऽनैकान्तिकत्वात् , अप्राप्यकारि चक्षुरावरणान्मनोवत् , तथा च मनः खल्वप्राप्यकारि माविसिक्ष्या विषादिभिश्चाबियत इति, रूपावरणेऽपि ह्यग्राहकं चक्षुर्वाह्यानुग्रहाभावान्मनोवत् , तथाहि-मनोऽप्राप्यकारित्वे सत्यपि ऐन्द्रियकेषु न क्वचिदनुप्रवर्त्तत इति, इन्द्रियानुग्रहशून्यं सदिति, यस्य चाभिप्रायः खल्वप्राप्यकारिणा चक्षुषा बाह्यानुग्रहनिरपेक्षेणाप्यनुवर्तितव्यं तस्य मनसाऽपीन्द्रियैः प्रकाशितेष्वप्रकाशितेषु वा विशेषेण सर्वार्थेष्वनुप्रवर्तितव्यम्, न चानुप्रवर्ततेऽत्यन्तमदृष्टाश्रुतादिष्विति / अथ द्वितीयश्चोदक आह-न चक्षुष इव मनसः अप्राप्यकारिता, ततो हेतुशुद्धावपि न ज्यायः प्राक् साधनं, साध्यविकलत्वाद् दृष्टान्तस्य, तथा च-गंतु'मित्यादि / इह देहाद् 'गन्तुं' निर्ग CARRORSAX