SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ अवग्रहादि वृत्तौ / // 76 // विशेषाव तुझं बहुयरमेया भण्णइ मई होइ घिइबहुत्ताओ। भण्णइ न जाइभेओ इट्ठो मज्झं जहा तुझं // 191 // कोव्याचार्य सा भिन्नलक्खणाविहु घिइसामन्नेण धारणा होइ / जह उग्गहो दुरूवो उग्गहसामन्नओ एक्को // 192 // 'उग्गहों इत्यादि / अवग्रहः-सामान्यार्थग्रहणं ईहा तदर्थविशेषालोचनं अपाय:-प्रक्रान्तविनिश्चयः चशब्दोऽवग्रहादीनां पृथक् // 76 // | पृथक् स्वातन्त्र्यप्रदर्शनार्थः, तेनैतदुक्तं भवति-अवग्रहादेरीहादयः पर्याया न भवन्तीति, अवगतार्थविशेषावधारणं धारणा, एवकारः क्र* मद्योतनार्थः, एवमनेनैव क्रमेण भवन्ति, आभिनिबोधिकज्ञानस्य भिद्यन्त इति भेदाः-विकल्पास्त एव वस्तूनि, कथं ?-यतो नानवगृ | हीतमीयत इत्येवमादि, काक्वा वा नीयते-एवं भवन्त्याभिनिबोधिकज्ञानस्य भेदवस्तूनि 'समासेन' संक्षेपेण विशिष्टावग्रहादिस्वरूपा६ पेक्षया, विस्तरतोऽष्टाविंशतिभेदभिन्नत्वादस्येति गाथार्थः॥१७८॥ अथामीषां स्वरूपाभिघित्सयाऽऽह-'अत्थाण' मित्यादि। अर्था| नां-रूपादीनां प्रथमं दर्शनानन्तरं ग्रहणमवग्रहणं यत्तदवग्रहं त्रुवत इति सम्बन्धः, 'तथे त्यानन्तर्ये विचारणं-पर्यालोचनमर्थानामिति वर्त्तते ईहनमीहा तां ब्रुवत इति सम्बन्धः, अवगहादुत्तीर्णस्यापायादधोऽन्वयव्यतिरेकवद्धर्मघटनव्यतिरेकाभिमुखतामीहां प्राहुः, विशि8 टोऽवसायो व्यवसाय:-निर्णयः तस्मिन्नवायमपायं वा ब्रुवत इति सम्बन्धः, अर्थानामिति च वर्चते, धृतिर्धरणं अर्थानामिति वर्तते, | परिच्छिन्नस्य वस्तुनोऽविच्युतिस्मृतिवासनारूपं तद्धरगं पुनर्धारणां ब्रुवते, पुनःशब्दोऽप्येवकारार्थः, ब्रुवते इत्यनेन शास्त्रपारतन्त्र्य | माह,तीर्थकरगणधरोक्तानुसारित्वादिति गाथार्थः // 179 // अथैतदप्योघतो भाष्यकृद्विवरीषुराह-'सामण्णे त्यादि / सामान्यरूपः 18|| सामान्यं, अशेषविशेषविनि ठितत्वेन सम्मुग्धाकार इत्यर्थः, अर्यत इत्यर्थः, सामान्यासौ अर्थश्चेति सामान्यार्थः, अवगृह्यतेऽनेनेत्य वग्रहण, एकसामायिकमवच्छेदनमित्यर्थः, सामान्यार्थस्यावग्रहणमिति षष्ठीसमासः तृतीयासमासो वा, ततश्रायमर्थः-सामान्येनार्थ SARACKENARSA
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy