SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ विशेषावः कोट्याचार्य परप्रबोधकेतरत्वाद् भेदः वृत्ती // 69 // // 69 // COACHING जइतंन सुरण तओ जाणइ सुयनिस्सियं कहं भणियं?। जं सुयकओवयारं पुटिव इम्हि तयणवेक्खं // 168 / / पुव्वं सुयपरिकम्मियमइस्स जं संपयं सुयाईयं / तं निस्सियमियरं पुण अणिस्सियं मइचउक्कं तं // 169 // उभयं भावक्खरओ अणक्खरं होज वंजणक्खरओ। मइनाणं सुत्तं पुण उभयपि अणक्खरकवरओ॥१७॥ 'अन्ने' इत्यादि / अन्ये अनक्षराक्षरविशेषतो मतिश्रुते भिन्दन्ति, यस्माद् किल मतिज्ञानमनक्षरमेव व्यञ्जनशब्दापोढत्वात्, श्रुतज्ञानं त्वक्षरवदनक्षरवच्चेति, तत्राक्षरवद् भावतो व्यञ्जनाक्षरतश्च अनक्षरवदुच्छ्वसितादि, कोभिप्रायस्तेषामेवं वदतामिति चेत्, उच्यते, मतौ व्यञ्जनाक्षरायोगात् श्रुत इवेति भावना, एतच्च परिफल्गु, भावाक्षरमङ्गीकृत्य मतिज्ञानस्याप्यनक्षराक्षररूपत्वात् // 162 // इत्थं | चैतद, अन्यथा-'जती'त्यादि, 'यदि मतिरक्षरानक्षरैव स्यात्,' यदि मतिः सर्वथा अवर्णवादविज्ञानरूपैव स्यात्, ततो नेहादयो मति| निरभिलाप्येऽर्थे अनुप्रवर्तेरनिति, तद्वर्णात्मकत्वात्, मतेश्चानक्षरत्वात् , आह-यद्यस्यामनक्षरायामीहादयोऽपि न प्रवृत्ताः क इव दोषः१, उच्यते, स्थाण्वादिविकल्पाभावः, स्थाणौ पुरुषादिपर्यायविवेकः स्थाणुधर्माध्यारोपश्च कथं नु स्याद् यदीयमनक्षरैवेति, तथाहि-याऽनक्षरा न तस्यामसौ, यथाऽवग्रहे तथा चेहादयस्तस्मान्न तेष्वसाविति गाथार्थः॥१६३।। तत्रैतत्स्यात्-मतिः श्रुतनिश्रिता अश्रुतनिश्रिता चोक्तेत्यतः श्रुतादेवाक्षररूपादसौ भविष्यतीत्यतः किमक्षररूपमतिकल्पनया येन बाधोच्यते यदीत्यादिना ?, आह चोदकाभिप्रायम्-'सुय' इत्यादि, श्रतनि:श्रितवदनादथ मन्यसे 'न' इत्यनन्तराधिकृतः स्थाण्वादिपर्यायविवेकः श्रुततो मतो, न तु बुद्धेः ईहादिकाया इति, उच्यते, यद्यसौ ईहादिव्यापारः 'श्रुतव्यापारः' श्रुतपरिच्छेद इति कल्प्यते ततः किमन्यन्मतिज्ञानं अवग्रहादन्यदिति वाक्यशेषः, निवृत्तेदानीमीहादिवा , तद्व्यापारस्य श्रुतव्यापाराभ्युपगमात्, मतिश्रुतयोश्च भेदोक्तेः किं 1, न किञ्चिदिति गाथार्थः / / 164 // अन्येन AUROLUKAMGARASTRAM
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy