SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ विशेषाव कोट्याचार्य वृत्तौ // 55 // SOSSESSUAAROSA |श्रोत्रेन्द्रियोपलब्धेहुव्रीह्यङ्गीकरणैकत्वपरिहारतो द्वित्वमुक्तवन्तस्तन्मतमुपन्यस्यन्नाह-'केयी'त्यादि / केचन व्याख्यानयन्ति-प्रज्ञा-पतो . पकस्य ब्रुवतः सतः शब्दः श्रोत्रेन्द्रियोपलब्धिलक्षणः 'सुयंति श्रुतं भवति, तमेव शब्दं 'सुणओ'शृण्वतः श्रोतुर्मतिरित्यत एवमसौ तिगाथाकिलोभय इति सिद्ध,आह-शोभनमेवैतत् कालपूर्वपक्षतेत्यत आह-'तन्नमत्तितदेतन्न मवति,किंवाइमात्रेणी,न इत्याह-यद् यस्मात् | | व्याख्या | सर्वः शब्दो भाष्यमाणः श्रूयमाणश्च द्रव्यश्रुतं वर्तते, अतस्तस्य 'को भेदः' को विशेषो येनासौ वक्तरि श्रुतं श्रोतरितु मतिरिति !, न कश्चिदिति गाथार्थः // 119 // 'किंवे'त्यादि // अथवा ज्ञानयोर्मेदाभिधानप्रक्रमे किं शब्देन !, न किञ्चिदित्यभिप्रायः, तस्य पुद्ग-5॥ 55 // लमयत्वात् , तत्रैतत्स्यात् न श्रोत्रेन्द्रियोपलब्धिः शब्द एव व्युत्पाद्यतेऽपि तु ज्ञाने अपि तृतीयाषष्ठीसमाससम्भवात् , ततश्च श्रोत्रेन्द्रियोपलब्धिः शब्दज्ञानमागृह्यत इत्यत आह-यदि चानेकव्युत्पत्तिसम्भवाच्छब्दज्ञानं गृह्यते द्वित्वप्रसाधनार्थ श्रोत्रेन्द्रियोपलब्धिशब्देनेति, एतदुक्तं भवति-यदि वक्तुः शब्दज्ञानं श्रुतमितरस्य तु मतिरिति गृहीतं 'तो' ततस्तस्येति शब्दज्ञानस्य भावश्रुतलक्षणस्य ब्रुवतः | शृण्वतो वा यो विशेषो-यो भेदः स कः ?, येनानयोक्तश्रोत्रोस्तन्मतिश्रुते स्याताम् , अपि च-यद्येवमभ्युगम्य परिहारो दीयते ततः श्रोतुरपि थुत्यनन्तरमव्यवधानेन ब्रुवतः सैव शब्दोत्थापिता मतिरविशिष्टा थुतं प्रसजति 'सुणतो मतित्ति भणतो सुतं'त्यभ्युपगमात, | तस्य च श्रवणानन्तरमेव वक्तृत्वसम्भवादित्येकत्वं मतिश्रुतयोरिति कोऽतिशयः कृतः स्यात् , यदि च सर्वदैव शृण्वतो मतिः-मति| रेव ततः 'आचार्यपारम्पर्येणेदं श्रुतमायात'मिति न वक्तव्यं, सर्वैः श्रुतत्वात् , तस्मान्न पुष्कलोऽयं परिहार इति गाथार्थः // 12 // अधुनैतत्प्रकरणोपसंहारव्याजेन परमेव व्युत्पादयन्नुभयस्यापि चोभयमभिधित्सुराह-तस्मात्-'भणत' इत्यादि // तस्मात् भणतो यत् श्रुतग्रन्थानुसारि ज्ञानं तत् श्रुतमेवं श्रोतुरपि, एवं दूयोरपि यत् श्रुतातीतं विज्ञानं सा मतिरिति सिद्धान्ताभिप्राय इति गाथार्थः॥१२॥ CARRRRCH
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy