________________ मतिश्रुतयोः | कार्यकार णता // 50 // विशेषाव०४ अथेमं विजिघटयिपुरेतद्भावे दोषान्तरमाविष्कुर्वन् पर आह-'णाणाण'इत्यादि प्रसिद्धार्था, एतदुक्तं भवति-मतिश्रुतयोरावरणक्षयो- कोव्याचार्य पशमः क्रमेण वा भवेत् यौगपद्येन चा?, योगपद्येन चेत् श्रुतं मतिपूर्वमिति सूत्रविरोधः, समकालोत्पत्रयोः सव्येतरगोविषाण | योरिव पूर्वापरभावाभावात् , क्रमेण चेन्मतिज्ञाने श्रुताज्ञानप्रसङ्गः, तदुत्पत्तौ तदनुत्पचेः, तदनुत्पत्तौ चेतरस्याद्याप्यनिवृत्तेः, इतरानि॥५०॥ वृत्तिश्च क्रमपक्षादिति गाथार्थः // 107 // उच्यते-ध्यान्थ्यविजृम्भितमेतद् अभिप्रायापरिज्ञानात्, तथाहि-द्विविधे ते-लब्धिरूपे चोपयोगरूपे चेति, लब्धिमङ्गीकृत्य योगपद्य दृष्टत्वात् सव्येतरगोविषाणयोरिच, उपयोग त्वङ्गीकृत्य क्रमभावः तथास्वाभाव्यात् , केवलज्ञानदर्शनयोरिवेति, आह च भाष्यकार:-'इहे त्यादि गतार्था, नवरं तथाहि-नासञ्चिन्त्य मत्या श्रुतग्रन्थानुसारि विज्ञानं प्रादुरस्तीति गाथार्थः // 108 // एवं च मत्युपयोगस्यापि श्रुतपूर्वकत्वादविशेषः किलेति, आह च चोदक:-'सोऊणे'त्यादि, पागध गतार्थ, आचार्य आह-'सा' मतिः 'द्रव्यश्रुतपमवा' कारणद्रव्यश्रुतजनिता, किं तया, सर्वथैतावद् बमो-भावश्रुतात् सकाशात् मतिर्नास्ति / किं सर्वथा नेत्याह-'कजतये'त्यादि, 'कार्यतया फलतया निषेधोऽयं 'नतु' नैव क्रमशो निषेध इति, आजन्म श्रुतमात्रोपयोगप्रसाद , क्या च श्रुतोपयोगात् क्रमेण भवन्तीं मति को वा निषेधति !, न कश्चिदित्यर्थः, किं कारणमित्याह-यस्मात् कारणात् 'श्रुतोपयोगात्' श्रुतचिन्तनोपयोगात् 'चुतस्य' उपरतस्य सतः 'तत्र' तस्यां मतो 'अवस्थान प्रतिष्ठा भवत्यनुभवसिद्धत्वात् , अतः | P'श्रुतं मतिपूर्व मित्यत्र सूत्रे श्रुतोपयोगोऽधिक्रियत इति स्थितमिति गाथाद्वयार्थः // 109 // 110 // तदेवं स्थिते—'दव्वसुय' मित्यादि, 'श्रुतं मतिपूर्वमित्यत्र केचित् व्याचक्षते-द्रव्यश्रुतं मतिपूर्व, न भावश्रुतं, किं कारणं', 'भासइ ज णाविचितिय'ति, मत्या असञ्चिन्त्य भाषणस्यासम्भवात् , तेषां को दोषः / इत्यत आह-मावश्रुतस्याभावः प्राप्नोति, तेषां एवं-व्याख्यायिनां मत्यनन्तरं शब्द PRAKAASARA