________________ विशेषाव० कोव्याचार्य X वृत्ती // 48 // 5 मित्यादि // इह च भावश्रुतं 'युज्यते' घटते, साधोरिति गम्यते, कुतः ? इत्याह-भाषालब्धिमत्त्वात् श्रोत्रलब्धिमत्वाच्च, उत्थितस्य मतिश्रुतल कार्यदर्शनात, यत् यत् किंविशिष्टमित्याह-'भासाभिमुहस्स जयं भवेज्जाहि सोऊण वा सई जं हवेज्जाहि' प्रस्तुतार्थयोजनां कुर्वनाह-'न इतरस्स'त्ति नैकेन्द्रियस्य तद् युज्यते, कार्यादर्शनात् , अतोन 'तमेगेंदियाण संभवति'ति गाथार्थः॥१०२॥ उच्यतेकार्यादर्शनादित्यसिद्धो हेतुः, आह च-'जहे'त्यादि // 'यथा' येन प्रकारेण सूक्ष्मभावेन्द्रियज्ञानमणीयसी लब्धीन्द्रियपश्चकावृति- 4 // 48 // क्षयोपशमोद्भवा ज्ञानशक्तिरस्ति, केषामित्याह-'पत्थिवाईणं' पृथिव्यायेकेन्द्रियाणामित्यर्थः, कदेत्यत आह-द्रव्येन्द्रियावरोधेऽपिनिवृत्युपकरणेन्द्रियावृत्तावपि, कुतः एतदिति चेत् बकुलाशोकादेः पंचेन्द्रियार्थोपभोगदर्शनात् , मतिश्चायं रूपादिविज्ञानमात्रत्वात् , दार्शन्तिकोपसंहारमाह-तथा द्रव्यश्रुतस्य-निवृत्युपकरणद्वयानावृतिकल्पस्य भावश्रुतं लब्धीन्द्रियपञ्चकावृतिक्षयोपशमोद्भवशक्तिकल्पं, अत्यन्तास्पष्टाक्षरानुसार्योधज्ञानं श्रद्धातव्यं, केषां चेदन्येषामश्रुतत्वात तेषामेव, अतः श्रुतग्रन्थाननुसरणे सत्यप्यमीषां यच्च यावच्चैतदस्ति इति नातद्वन्त इमे, न चानिष्टप्राप्तिरिति सिद्धमिति गाथार्थः // 103 // अत्राह–'एवं'मित्यादि, एवं-भावश्रुतवत् , 'सर्वप्रसङ्गः' | || अवध्यादिज्ञानप्राप्तिप्रसङ्गो, न चैतदनुपपत्रं, "पशवश्चाप्यनिवृत्तकेवला" इति वचनात् , उच्यते, 'न' इति नैतदेवं, किं कारणमित्या-18 ह-तदावरणानां-अवध्यादित्रयज्ञानावरणानामक्षयोपशमादक्षयाच्च, पशव इत्याद्यस्य च शक्तिमात्रोपवर्णनात् , व्यतिरेकमाह-मतिश्रुते | | तु स्यातां तदावरणक्षयोपशमसद्भावात् , 'सव्वजीवाणपि अ णमित्येवमादिवचनात् , यथा जात्यन्धस्य क्षयोपशममात्रमवशिष्यते नतु | 8| सहकारिकारणमित्येवमत्रापीति गाथार्थः // 104 // इतश्चानयोर्भेद इत्याह मइपुव्वं सुयमुत्तं न मई सुयपुब्विया विसेसोऽयं / पुव्वं पूरणपालणभावाओ जे मई तस्स / / 105 // XSANSAR