________________ विशेषाव० कोट्याचार्य मतिश्रुतलक्षणभेदः वृत्ती ACCRORSCOR // 47 // // 47 // र्थमिदं विशेषणान्तरमुच्यते इति, उच्यते नेदं व्यवच्छेदार्थ, स्वरूपान्वाख्यानत्वात् अस्य, इत्थं ज्ञानस्य सदा निजाऽर्थोक्त्यव्यभिचारात्। यदत्रान्यत्तदुद्धरत्राह-'मति सेसं'ति शेष-यदिन्द्रियमनोनिमित्वं विज्ञानमप्यश्रुतानुसारेण निजार्थोक्त्यसमर्थ सा मतिः-तन्मतिज्ञानं, एतदुक्तं भवति-सामान्यार्थावग्रहादारभ्य बह्वादिग्रहणवशाच्छब्दादिज्ञानं सांव्यवहारिकार्थावग्राहि च मतिः, साम्प्रतकालीनवस्तुविषयत्वात् , यत्र शब्दमात्रापोहः सा मतिः, यत्र त्वर्थालोचना तच्छ्रतमिति भावनेति गाथार्थः // 10 // चोदक आह–'जई'। इत्यादि, यदि मावश्रुतलक्षणमेतदभ्युपगम्यते, यदुक्तभनन्तरगाथायां 'तो' ततः न तद्-भावश्रुतमेकेन्द्रियाणां-पृथिव्यादीनां सम्भ| वति, न ह्येकेन्द्रियाणामक्षरलब्धिरस्ति येन श्रुतग्रंथानुसारिविज्ञानयोगादेते तद्वन्तः स्युः, तथा च सत्यनिष्टं 'सव्वजीवाणंपि य ण'मित्युक्तत्वात् , उच्यते, तेषां द्रव्यश्रुतं नास्ति, कारणाभावात् , तदभावे भावश्रुतमपि मा भूदिति चेदत आह-द्रव्यश्रुताभावेऽपि च तेषां भावश्रुतमशब्दकार्याशब्दकारण तदावरणक्षयोपशममात्रं जीवत्वनिबन्धनमस्त्येवेति शेषः, कस्येवेत्याह-सुप्तयतेरिव, यथा हि सुप्तस्य साधोः सहकारिकारणाभावेन द्रव्यश्रुतं नास्ति, तथापि लब्धिरूपं विद्यते इत्येवं तेषामपीति को दोषः 1, एतदुक्तं भवतियथा पयसि नवनीतघृतमात्रमनुमीयते, उत्तरकालं स्पष्टीभवमानत्वात् , एवमेतेष्वप्येतद्, यथा च तत्र तयोरन्योन्यानुवेधः एवमेतेष्वप्यनयोरिति वल्लयादौ स्पष्टदर्शनात् , अत्राह-प्राक् श्रूयते तदिति श्रुतमित्युक्तमिह च सुप्तयतौ द्रव्यश्रुतनिषेध उक्तः, तदभावे च | श्रुतोपयोगस्याप्यभाव इति, किमुच्यते-'सुत्तजइणो व्व'त्ति, उच्यते, इष्टतो विग्रहात्, तथाहि-शृणोत्यसाविति श्रुतं तेन तस्मिन् वा, | यदा च यत्र च सोऽन्यो वेति, अतः क्षयोपशमस्य विवक्षितत्वादुपयोगस्य चाविवक्षितत्वात् , सुप्तयतौ च क्षयोपशमसद्भावात् सुष्टच्यते-'मुत्तजइणो बत्ति गाथार्थः // 1.1 // साम्प्रतं साधितमर्थ दृष्टान्तदाान्तिकयोवैषम्यापादनेन विघटयन्नाह-'भावसुय' *CONOSAUKOS HOXHAMA RECAUG