________________ विशेषाव कोवाचार्य असा गौतमगणधरः वृत्ती // 49 // // 492 // NEARESOLAN रीरसहचरणस्थानादितो जीवस्य शरीरे तदुपचारः, इदमपि चान्यदनुश्रूयते एव-गतः स जीवो दयतामिदं शरीरमिति / 'णाणादी. त्यादि // यतश्चायं ज्ञानादिगुणो भणितस्तस्मान्न देहोऽयमिति नास्यायमेवार्थः, मूर्तिमत्त्वाच्च घटवत् , तथा देहेंदियातिरित्तो विनाया तदुवलद्धी त्यादि वक्तव्यमिति गाथार्थः // 2054-55 / / तदद्याप्यप्रतिबुध्यमाने गौतमस्वामिनि भगवानाह जीवोत्थि वओ सच्चं मव्वयणाओऽवसेसवयणं व। सवण्णुवयणओ वा अणुमयसवण्णुवयणं व // 2056 // भयरागदोसमोहाभावाओ सच्चमणइवाइं च / सव्वं चिय मे वयणं जाणयमज्झत्थवयणं व // 2057 / / कह सव्वण्णुत्ति मई जेणाहं सव्वसंसयच्छेई / पुच्छतु व जं न जाणसि जेण व ते पच्चओ होजा // 2058 // 'जीवों इत्यादि // जीवोऽस्तीति वचः सत्यं, मद्वचनत्वाच्छेषवचनवत् , यच्चासत्यं न तन्मद्वचनं, यथा कूटसाक्षिवचनं, सत्यं जीवोऽस्तीति वचः, सर्वज्ञवचनत्वाद्भवदनुमतसर्वज्ञवचनवत् , अनुमतं च तत्सर्वज्ञवचनं चानुमतसर्वज्ञवचनं, अत्रानुमतग्रहणं साभिप्रायक, जैमिनिमनूपवर्षाद्याप्ताभ्युपगमात् / तथा-'भये त्यादि // सर्व मद्वचः सत्यमनतिपाति च भयरागद्वेषमोहरहितत्वात् , पथिज्ञस्याभयस्य प्रष्टुर्भयरागद्वेषवतः सत्पथोपदेशवचनवदिति गाथार्थः // 2056-57 // भगवांस्तमारेकते-'कहे त्यादि / कथमहं सर्वज्ञो, न कथञ्चिदिति मन्यसे, ततश्चासिद्धं प्रागहेतुद्वयमिति, उच्यते-जेण संसयच्छेत्ता, प्रयोगः-सर्वज्ञोऽहं सर्वसंशयच्छेदित्वात् , दृष्टान्ताभावतोऽनन्वयो नाम दृष्टान्तदोषः इति चेत् , तन्न, प्रत्यक्षत्वादविप्रतिपत्तेश्च किमत्रान्वयान्वेषणेन ?, प्रस्तावान्तरविषयत्वादन्वयान्वेषणस्य, न चेदेवमित्यत आह-'पुच्छे'त्यादि, स्पष्टम् / द्वितीयोऽपि हेतु सिद्धः, तल्लिङ्गादर्शनात् , तल्लिङ्गादर्शने च न तदनु मितावतिप्रसङ्गो बाधा चेति, यच्चाभ्यधायि न चोपमानेनेति तत्कामं / अर्थापत्या तु प्रसंगतः प्रसाधित एव, स्वस्थानेऽपीच्छादेः बुद्धि