________________ आधगणघर: वृत्ती विशेषावागाव, तस्मात्तत्सत्तावलम्बिनाऽसावभ्युपगन्तव्य इति, न चायं स्थाणोः, अनुरूपधर्मिधर्मत्वाबोधरूपत्वाद्वेति, अथवा यदि नत्थित कोव्याचार्य संसइच्चिय तो संसइते सरूवे गौतम ! तवान्यत् किमसंदिग्धं स्याद् ! येन कर्मादि वस्तीत्यवसीयते , ततश्चैवमहंप्रत्ययवि शिष्टत्वेन स्वप्रत्यक्षमात्मानं निहुवानस्य नास्ति जीव इति प्रत्यक्षविरुद्धो नाम पक्षाभासो जायते, यथाऽश्रावणः शब्द इति / तथा भाविनीमनुमानसिद्धिमङ्गीकृत्यानुमानविरोधोऽपि, यथा नित्यः शब्द इति, अबानित्यः शब्दः कृतकत्वाद् घटवत् 2, तथाऽहमस्मि // 484 // संशयीति प्रागम्युपगम्योत्तरत्र नास्तीति प्रतिजानानस्य पूर्वाभ्युपगमबाधा, यथा साङ्क्षयस्य सत्कार्य जायत इत्यम्युपगम्यासज्जायत इति प्रतिजानतः 3, तथा गोपालाङ्गनादि प्रति सिद्धमात्मानं न्यत्कुर्वतो लोकविरोधोऽप्यचन्द्रः शशीति यथा 4 अहं नाहं चेति गदतः स्ववचनव्याहतिरपि माता वन्ध्येति यथा 5 / एवमस्मिन् पक्षे प्रत्यक्षादिबाधिते हेतुरप्यपक्षधर्मतयाऽसिद्धः, अनैकान्तिकोऽपि, हिमवत्पलाग्रपरिमाणादावपि वृत्तेः, तथाऽक्षकरणाधिष्ठातृकात्मनि विपक्षेऽत्यन्तानुपलब्धेर्लेशतो वृत्तेविरुद्धोऽपि हेतुरिति गाथार्थः // 2036 / / तदेवमस्य साक्षादध्यक्षतामभिधाय पुनरपि प्रकारान्तरेणाह-'गुणे'त्यादि पुब्बद्धं, प्रयोगः-प्रत्यक्षस्तवायमात्मा गुणप्रत्यक्ष| त्वात् व्यतिरेकोपन्यस्तघटवत् , तत्रैतत्स्याद्-अनैकान्तिको हेतुर्गुणप्रत्यक्षत्वेऽपि कदाचिद् गुणिनोऽप्रत्यक्षत्वात् , तद्यथाऽऽकाशगुणः शब्द इत्यत्र शब्दः प्रत्यक्षो नाकाशमिति, उच्यते-नाकाशगुणः शब्दः, ऐन्द्रियत्वाद्रपादिवत् , कारणस्वरूपानुविधायिकत्वाच्च कार्यस्य नाकाशगुण इति, अतो गुणप्रत्यक्षतया गुणिनं प्रतिपद्यस्व, स्याद् अतिस्तोकं ग्रहणमिति तन्त्र, भवताऽपि घटो गुणी 'गृह्यते' चक्षुषा विषयीक्रियते, यस्माद् गुणमात्रग्रहणादेव, अपिशब्दस्यावधारणार्थत्वाद्गन्धादिपरिहारेणोद्घातादिग्रहणादित्यर्थः, किं कारणं?, अर्वाग्दर्शित्वाद्भवत इत्यतः कोऽयमकाण्ड एव सर्वात्मनाऽऽत्मग्रहणाभिलाषस्तवेति / तथा च-'अन्नों' इत्यादि // प्रयोगः-यो यदनान्तरः BACHAR // 484 //