________________ NCR गौतमगणधरः / / 485|| | स तद्ग्रहे गृह्यते, तद्यथा-वाससि राग इति गाथार्थः // 2038 // 'अहे'त्यादि / अथाऽन्यः तत एवं कृत्वाऽन्येऽपि घटादयो गुणिनो विशेषावा कोट्याचार्य न प्रत्यक्षाः, गुणमात्रग्रहणाद्, अतो जीवे तपस्विनि केवले कोऽयं विचारः? केयं तव नास्तित्वविवक्षेति, तस्मात्प्रत्यक्षो जीवः गुणद्वावृत्ती रेण ग्रहणाद, दृष्टान्तधर्मिवत्, साध्यविपर्यये दृष्टान्तधर्मिणोऽपि ग्रहणानुपपत्तिर्बाधक, न च प्रतिज्ञार्थंकदेशो हेतुः, साधनहेतुबैपरीत्ये नानुपलब्धिवल्लक्षणहेतुत्वाद, तत्रैतत्स्याद् अपद्रव्यो हि गुणो न भवतीति तद्ग्रहणानुपपत्तिद्वारेण घटादिग्रह इति, उच्यते, नात्मन्य॥४८५॥ प्येवमिति न व्यक्तमीश्वरशासनमिति गाथार्थः।।२०३९॥ तस्मादभिन्नगुणप्रत्यक्षत्वेन साक्षाद् गुणी गृह्यत इति स्थितम्-'अहे'त्यादि। अथ गुणी, न त प्रत्याचक्ष्महे, किन्तु देहार्थान्तरोऽसौ नेति ब्रूमः, किमिति ?, यतः देहे ज्ञानादयो गुणाः समनुभूयन्ते, ततः स एव | तेषां गुणी युक्तः स्याद्, देहाश्रया ज्ञानादयः, तत्रैवोपलब्धेगौरतादिवदिति गाथार्थः // 2040 // उच्यते-'नाणे'त्यादि / यद्यत् मृतं चाक्षुषं च न तस्य ज्ञानादयो, यथा घटस्य, तथा च देहः, आत्मा चामूर्तो, मृत्तिमच्चस्य पररूपत्वात्, तस्माद् यस्य धर्मिणः सम्बन्धितया ज्ञानादयो वर्त्तन्ते स देहातिरिक्तो जीव इति भावार्थः, आह-'नाणादयो न देहस्से ति प्रत्यक्षविरुद्धं, यथा-अश्रावणः शब्दः, ऐन्द्रियकत्वाद्देहवत्, उच्यते, न अनुमानेन परिकरितत्वात्, तच्चेदं-देहेन्द्रियातिरिक्त आत्मा तदुपरमेऽपि तदुपलब्धार्थानुस्मरणाभ्रंशात्, पश्चवातायनोपलब्धार्थानुस्मर्तृदेवदत्तवत् गृहगवाक्षव्यतिरिक्त इति वायुभूतिप्रश्नपि वक्ष्याम इति गाथार्थः॥४१॥ उपसंजिही| पुराह-'इय'इत्यादि // देशप्रत्यक्षस्तेऽयमग्दिर्शित्वेन मर्यादाग्राहित्वाद् घट इव, देशप्रत्यक्षता च वस्तुनोऽनन्तपर्यायप्रमाणत्वात्, भवदादेश्व छद्मस्थत्वेन तदविषयत्वात्, विज्ञानदेशप्रकाशात्मकत्वात्प्रदीपघटैकदेशप्रकाशवत्, मम तु सर्वथा प्रत्यक्षो, विहितानन्तज्ञानत्वाद्भवद्विज्ञानवत्, यथेह भवद्विज्ञानमतीन्द्रियमशेषमहमुपलमे तथा भवजीवमपीति तस्मात्प्रतिपद्यस्व तमिति गाथार्थः।।२०४२।। 050%AA% MICRORNANCIPANASONSARKES