________________ विशेषाव कोव्याचार्या आद्यगणधरः वृत्ती // 48 // // 480 // जंचन लिंगेहिंसमं मनसि लिंगी जओ पुरा गहिओ। संगं ससेण व समं ण लिंगओतोऽणुमेओसो॥२०४४|| सोऽणेगंतो जम्हा लिंगेहिं समं न दिट्ठपुवोवि / गहलिंगदरिसणाओगहोऽणुमेओ सरीरम्भि // 2045 / / 'किं मन्ने'इत्यादि // हे आयुष्मन् ! गौतम ! 'किं' कस्मात् मन्यसे अस्ति जीव उताहोश्चिनास्तीति, एवं संशयस्तव, त्यज्यतां चायमधुना मत्संप्राप्त्या, अनुचितत्वात, शेषमिथ्यात्वमलकलङ्कवत, अथवा किमस्ति जीव उताहोश्चिन्नास्तीति, एवं 'मन्नेति मन्यते भवान्, संशयः 'तुझंति अयं तव संशयः, कुतः पुनः ?, उभयहेतुसद्भावाद्, विरुद्धवेदपदश्रवणादित्यभिप्रायः, ततः किमत आह-'वेदपदानां च वेदवाक्यानां च 'अर्थ' सद्भावं 'न जानासि नावबुमसे, श्रौत्रेण न्यायेन प्रवृत्तेः, तेषां चायमर्थो-यो मया निर्जायत इति गाथौधार्थः // तत्र नास्तित्वहेतवस्तावदमी-'जीवे इत्यादि / जीवति जीविष्यति जीवितवान् वा जीवस्तस्मिन् जीवे विषयभूते भवतः सन्देहः, किल प्रत्यक्षं यस्मान गृह्यते, घटवदिति व्यतिरेकी, प्रत्यक्षेण चाग्रहणं तस्य सत्संभयोगजत्वात्, तस्य चात्यन्तासत्वेनाप्रत्यक्षत्वाद्, अतः पश्चार्डावतारः-'अचंतापच्चक्खं च नत्थि लोएखपुप्फ 'त्ति नास्ति जीवः अत्यन्ताप्रत्यक्षत्वात | खपुष्पवत्, हेतुविशेषणं किमिति चेद्धतोरप्रामाणिकत्वनिषेधार्थ, तथा ह्यप्रत्यक्षा भवन्त्यणवो, न च न सन्ति, दयणुकादिकार्यगम्यत्वात, व्यतिरेकेण त्वेत एव, घटो वेति गाथार्थः॥२०२८।। एवं च मन्यसे-'न य सों-इत्यादि / न चासौ जीवोऽनुमानव्यापारगम्यः, कस्यापि प्रत्यक्षपूर्वकत्वात् , कुतः ? इत्याह-लीनमर्थ गमयतीति लिङ्गं, लिङ्गमस्यास्तीति लिङ्गी, लिङ्गच लिङ्गी च लिङ्गलिङ्गिनौ तयोः पूर्वोपलब्धसम्बन्धस्मरणात्, तथाहि-प्राग महानसादावग्निधूमयोरन्वयव्यतिरेकवन्तमविनाभायमध्यक्षतो गृहीत्वा तत उत्तरकालमटन् बनिन्निकुञ्जादावग्नि प्रत्येति, यत्र यत्राहं धूममद्राक्षं तत्र तत्राग्निर्यथा महानसादौ, तथा चेहाई, तस्मादत्राग्निना भाव्यं,