________________ विशेषावा आहा कोट्याचार्य B2%*%*0% गणधर वृत्तौ // 48 // // 48 // व्यतिरेकेणोदकभाजन, अगृहीतसम्बन्धस्य नालिकेरद्वीपनिवासिनस्तद्दर्शनेऽपि तदप्रतिपत्तेरस्य तत्पूर्वकतेति गाथार्थः // 2029 // एवं चास्मानाशङ्कसे-प्रकृतेऽप्येवमेव भविष्यतीति, तन्न, यतः-'न य'इत्यादि / न च जीवतल्लिङ्गयोः सम्बन्धदर्शनं अविनाभावग्रहणमभूत् कस्यचिद्विमलधियोऽपि, यतस्तल्लिङ्गदर्शनाद् यस्माजीवाविनाभूतकार्यग्रहणात्सकाशात् पुनः स्मरतः सतो लिंगलिङ्गिसम्बन्धं जीवेऽग्निकल्पे संप्रत्ययो भवेत् , तस्मात् मां अमुमस्मादनुमंस्यथ इति, एवं चाशङ्कसे, अथ वक्ष्यथ-सामान्यतो ? दृष्टादनुमानादात्माऽस्तित्वं सेत्स्यति चन्द्रादित्यादिगतिवद् , गतिमानादित्यो देशान्तरप्राप्तेर्देवदत्तवदिति, एतदपि सव्याज, देवदत्ते दृष्टान्तधर्मिण्यध्यक्षतो गतिमत्वमालोक्य ततः सूर्ये सामान्येन ग्रइणात्, न चैवमत्रान्यत्राध्यक्षतो जीवत्वं गृहीत्वा क्वचित्सामान्येन | ग्रहणं लभ्यते, यन्नास्ति तन्नास्त्येवेति किं तेनेति गाथार्थः // 2030 // एवं चाशङ्कसे-आगमात् तमुवगमिष्यामः, तदपि न, यतः| 'नागमे'त्यादि // नागमगम्योऽप्यसौ-जीवः, किं मनोरथैः ?, नेत्याह-'यत्' यस्मानागमोऽनुमानाद् भिद्यते, घटसन्निधौ | सकृद् घटप्रयोगोपलब्धावुत्तरकालं घटमानयेत्युक्तेऽन्वयव्यतिरेकमुखेन घटानुमितिप्रवृत्तेः, न चेत्थमात्मशब्दः शरीरादन्यत्र प्रयुज्यमानो दृष्टो यमात्मशब्दात्प्रतिपद्येमहीति, विवक्षान्वयव्यतिरेकानुविधायित्वेन च कार्यत्वाच्छब्दोऽनुमानान्न भिद्यते, संबद्धादन्यतः प्रतिपत्तेश्व, अथ भवतां मतिर्लिङ्गिनि प्रतिबद्धोऽपि ध्वनिन लिङ्ग, अलिङ्गाच्च या प्रतिपत्तिः स खल्वागम इति, उच्यते, प्रतिपन्नं |नामेदं मया, तथाऽपि दृष्ट एवार्थे शब्दानां प्रामाण्यं योक्ष्यति, यथा नदीतीरे गुडशकटं पर्यस्तमिति, अथ वासनामात्रावष्टम्मेनोच्यते भवद्भिः अस्त्यसौ, यथादृष्टेऽप्यर्थे ध्वनयः प्रमाणपदवीमवतरिष्यन्ति, उच्यते, न च कस्यचित् प्रत्यक्षो जीवो यस्य सम्बन्धि वचनमागमः, तस्याविद्यापारतन्त्र्येणातीन्द्रियवस्तृदृष्टत्वायोगादिति गाथार्थः // 2031 // एवं च मन्यसे-'जं चेत्यादि / USAHAAAAA