SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ विशेषाव कोट्याचार्य वृत्ती // 44 // सामान्येनैवाभिधानात् , आह-एवं द्वितीयादयवे विशेष्य प्रत्यक्षमुक्तं 'नोइन्दियपञ्चक्खं चेति वचनात् , नोइन्दियं च मन इत्यभिप्रायः, मतिश्रुत| उच्यते, न, सर्वनिषेधवचनत्वेन नोशब्दस्य तत्रावधिज्ञानादिविशेषणाव, तत्रैतत् स्यात्-नोइन्द्रिय-मनः, ततश्च तन्निमित्तमवध्यादि योभिन्नत्वं भविष्यतीति नोइन्द्रियनिमित्तं परोक्षमिति न श्रद्धध्महे इति, एतदपि नास्ति, मनःपर्याप्या अपर्याप्तकस्यावधिज्ञानाभावेन तदुपयो| गाभावतोऽनिष्टापत्तिप्रसङ्गात् 'चुतेमित्ति जाणती'त्यस्यासम्बध्यमानत्वात् , सिद्धस्स चाज्ञत्वप्रसङ्गः स्यादमनस्कत्वात् , तस्मात् स्थि-६॥४४॥ | तमेतद्-यथेन्द्रियप्रत्यक्षं परोक्षमुक्तं मतिश्रुतयोः परोक्षत्वेन पठितत्वात् , एवं मतिश्रुतपरोक्षवचनादेव मनोनिमित्तमपि तदन्तर्गतत्वा| देव परोक्षमिति श्रद्धातव्यं, मतेश्चाष्टाविंशतिभेदभिन्नत्वात् , अन्यथाऽस्यापि षष्ठत्वप्रसङ्गात् , नच तदिष्टमिति / साम्प्रतं गाथाक्षरार्थः प्रतन्यते-एकान्तेन परोक्षं लैङ्गिकमात्मनः परनिमित्तत्वाद् , अवघ्यादि च प्रत्यक्षमात्मनोऽपरनिमित्तत्वात् , इन्द्रियादिजंकथं तर्हि प्रत्य-18 क्षमित्यत आह-संव्यवहारः (रप्रत्यक्षं) साक्षादिवेन्द्रियाणां तदुत्पत्तेः,अन्यथोक्तं-'नो इंदियावि उवलद्धिमन्ति विगतेसु विसयसंभरणा'। | इत्येवमादि, तदेवं ज्ञानपञ्चकं परोक्षं प्रत्यक्षं चेति लक्षणत उक्तमिति गाथार्थः // 95 // अथ परोक्षाधिकार एव परश्चोदयति-मतिश्रत| योः स्वामिकालादिसामान्यादेकत्वमेवास्तु, मा भृद् भेदकल्पना, तथोक्तं-'जत्थ'मइनाणं तत्थ सुयनाणं, जत्थ सुयनाणं तत्थ मइ| नाणं ति, तथा चाह सामित्ताइविसेसाभावाओ मइसुएगया नाम / लक्खणभेआदिकयं नाणत्तं तयविसेसेवि // 96 // लक्षणभेआ हेउफलभावओ भेय इन्दियविभागा। वागक्खरमूगेयरभेआ भेओ मइयाणं // 97 // 'सामि' इत्यादि, स्वामित्वादिभिर्विशेषाभावः तस्मात् किमत आह-मतिश्रुतयोरेकता एकत्वं, नाम इति निपातो, निपातस्य
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy