________________ विशेषाव कोट्याचार्य वृत्ती प्रत्यक्षपरोक्षता // 43 // // 43 // SHORORSCORRORS पक्षीकुर्वनाह–'होति इत्यादि / इह हि जीवस्य-आत्मनो मतिश्रुते परोक्षे परनिमित्तत्वादनुमानवत् , अथवाऽऽत्मन एते परोने पूर्वोपलब्धसम्बन्धस्मरणद्वारेण जायमानत्वात् धूमदर्शनादग्निज्ञानवत् , तस्मादिन्द्रियप्रत्यक्षं परोक्षं परनिमित्चत्वात् , अवध्यादि तु| प्रत्यक्षं अपरनिमित्तत्वात् // 94 // 'एगंतेण परोक्ख' मित्यादि / आह-ननु इन्द्रियप्रत्यक्षं परोक्षमित्युत्सूत्रमुक्तं “पञ्चक्खं दुविहं पण्णतं, तंजहा-इंदियपच्चक्खं च नोइंदियपञ्चक्ख चे"ति वचनात् , उच्यते, सत्यमेवमेतत् , किन्तु यदात्मन इन्द्रियमनोभिर्बाह्यलिङ्ग| प्रत्ययमुत्पद्यते तदेकान्तेनेन्द्रियाणामात्मनश्च परोक्षमनुमानत्वाद् धूमादग्निज्ञानवत् ,अवध्यादि त्वात्मनः प्रत्यक्षमव्यवधानेनोत्पत्तेः इन्द्रि याणां धूमज्ञानवदिति मुख्यं, यत्पुनः साक्षादिन्द्रियमनोनिमित्तं तत्वेषामेव प्रत्यक्षमलिङ्गत्वादात्मनोऽवध्यादिवत् आत्मनस्तु परोक्षं 'अक्खस्स पोग्गलकया' इत्यादि समासादित्वाद् , अपिच-तेषामपीदं संव्यवहारतः प्रत्यक्षं 'तन्नो ताइ जमचेयणाई इत्यादि सिद्धत्वात् , आह-न सूत्रे विशेष्योक्तं यथा संव्यवहारत इदं प्रत्यक्षमिति 'इंदियपच्चक्खं चेति सामान्यश्रवणात् , सत्यं, प्रदेशान्तरे उक्तत्वात , 'परोक्खं दुविहं पन्नत्तं-आभिणिबोहियनाणपरुक्खं सुयनाणपरुक्खं चेति श्रवणात,न चाभ्यामनन्यदिन्द्रियनिमित्तमस्ति यदञ्जसेन्द्रियप्र|त्यक्षं स्यात् , ननु यत् सांव्यवहारिकमलैङ्गिकत्वेन साक्षात्कारोद्भवं तदञ्जसा प्रत्यक्षमस्तु, यचात्मनो लङ्गिकं इन्द्रियाणां च धृमाद31 नलज्ञानमिव तत्तु मतिश्रुते भविष्यत इति को दोष', उच्यते, नैतदेवं, लैङ्गिकस्येन्द्रियनिमित्तत्वाभावाद् इन्द्रियस्य प्रत्युत्पन्नमात्र| विषयत्वात् , मतिश्रुतयोश्चेन्द्रियानिन्द्रियनिमित्त्वात् , इन्द्रियप्रत्यक्षमेव तर्हि मतिश्रुतयोरन्यदस्तु इति चेत्तन्न, षष्ठज्ञानप्रसङ्गात् / आह-एवमिन्द्रियनिमित्तं परोक्षमिति श्रद्धध्महे, मनोनिमित्तं न, उच्यते, यथेदं परनिमित्ततया परोक्षमिति श्रद्धत्से एवमिदमपि कस्मान श्रद्धीयते 1 इति, सूत्रेऽनुपदिष्टत्वात् 'इंदियपक्वं चेति सामान्येनाभिधानादिति चेत, सूरिराह-यद्येवं तत्तत्र प्रत्यक्षमपि नोक्तं,