SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ विशेषाव | नामिन्द्रियाणि-स्पर्शनादीनि अक्षाणि, नाक्षोऽक्षाणि, अतः तदुपलब्धिः-इन्द्रियाणामव्यवधानेनोपलब्धिः प्रत्यक्षमुच्यते, उच्यतां न दोष प्रत्यक्षकोट्याचार्य इति चेत्, अत आह-तन्त्र, मिथ्यादर्शनत्वात् , कुत इत्याह-तानि-इन्द्रियाणि यद्-यस्मादचेतनानि जानन्ति न घटवदिति दृष्टा परोक्षता जान्त इति गाथार्थः // 91 // ननुच प्रत्यक्षविरोधिनीयं प्रतिज्ञा, इन्द्रियाणां साक्षात्कारेणानुभवात् , उच्यते, नैवं, भ्रान्तत्वादस्यानुभ-|| // 42 // | वस्य, तथाहि-'उवलद्धा' इत्यादि, 'तत्थति तस्मिन् पौद्गलिकेन्द्रियरन्ध्र 'तेन' देहकुटीरकेन्द्रियगवाक्षकेण, करणभूतेनेत्यर्थः, किमत आह-'उवलद्धा आया'त्ति उपलब्धा आत्मा-जीवो वर्तते, कुत इत्याह-तद्विगमेऽपि-इन्द्रियरन्ध्रविगमेऽपीन्द्रियावरणक्षयोपशमविगमेऽपि तदुवलद्धसरणाओ'त्ति तदुपलब्धार्थानुस्मरणात् , क्षयोपशमविशिष्टेन्द्रियोपलब्धार्थानुस्मरणादिति भावना, दृष्टान्तमाह-गृहगवाक्षोपरमेऽपि-स्थगनेऽपि सति तदुपलब्धार्थानुस्मर्तृवत्-गृहगवाक्षोपलब्धार्थानुस्मर्तृपुरुषवत् , एतदुक्तं भवतियथा गृहस्थः पुरुषो गवाक्षेणोपलब्धा, न तु गवाक्षः, तद्विगमे तदुपलब्धार्थानुस्मरणाद, एवमत्रापीति गाथार्थः॥ 92 / / आह-कस्येदं | दर्शनं स्वतन्त्राणीन्द्रियाणि उपलब्धिमन्ति, नन्वेतावद् मो-यदात्मन इन्द्रियमनोनिमित्तं तत्प्रत्यक्षं, 'आत्मा मनसा युज्यते, 8 मन इन्द्रियेण, इन्द्रियमर्थेने ति वचनात्, अत्रोच्यते, चीर्ण चरसि गान्धारि, तथाहि-उक्तमेतत् प्राक् 'अक्खस्स पोग्गलकया' इत्यादि| गाथयेति // इतश्च-'इंदियेत्यादि / इन्द्रियमनोनिमित्तं परोक्षं, संशयविपर्ययानध्यवसायनिश्चयसद्भावाद्, दृष्टान्तमाह-यथेह साभासमनुमानं तत्कारणत्वात् परोक्षमेवमत्रापीति, प्रयोगौ-यदिन्द्रियमनोनिमित्तं तत्परोक्षं संशयविपर्ययादिसद्भावात् , इन्द्रियमनोनिमित्तासिद्धानकान्तिकविरुद्धविषयानुमानाभासवत् , एवमिन्द्रियादिनिमित्तं परोक्षं निश्चयसद्भावादनुमानज्ञानवत् , यच्च प्रत्यक्षं न तत्र संशयादयो यथाऽवध्यादिषु, न चावध्यादिषु निश्चयबुद्धिरिति व्यपदेशो ज्ञानविशेषत्वादिति गाथार्थः // 93 // साम्प्रतं विशेष
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy