SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ विशेषावः निर्देशे नयविचारः // 439 // उच्यते, तयोरुपयुक्तस्यानुपयुक्तस्य वा वक्तुरात्मनिरपेक्षाभिधेयमात्रवशाच्छन्दमात्रमेव निर्देशः, इह तु बाह्यवस्तुविज्ञानं प्रत्ययमात्रमु ररीकृत्याभिप्रेयोपयोगानन्यत्वादभिधातुः स्वरूपमेवाधिक्रियते निर्देशे, आह-यद्येवमृजुसूत्रादस्य को विशेषः, तस्यापि हि निर्देशककोव्याचायला वृत्ती वशानिर्देशः स एवेहापीति, उच्यते, मजुसूत्रस्यानुपयुक्तस्यापि वक्तुरभिधानमात्रकं, न विज्ञानमेवेत्ययं विशेष इति गाथा(मावा)र्थः।३७। 'इय'इत्यादि / एवं सर्वनयमतानि प्रत्येकमप्रमाणानि, परीचविषयत्वात् , समुदितानि त्वन्योऽन्यापेक्षास्थितानि जैन शासनं भवन्ति, // 439 // यत्किविशिष्टमित्याह-बाह्यश्चाभ्यन्तरश्च बाह्याभ्यन्तरौ२ च तौ निर्देशौ चेति विग्रहस्तयोनिमित्तमिति समासः तत्सङ्ग्रहीतुं-अभ्युप गन्तुं शीलमस्येति समासः, अन्तर्बाह्यनिमित्तसामग्रीमयं यदित्यर्थः। तथा च स्वरनामकर्मोदयवाद्यार्थादिवचनीयविशिष्टसामग्रीत एव | ध्वनियविर्भवति, स चार्थमुद्योतयनेव, तत्स्वभावत्वात् , अत एव शब्दार्थयोः प्रकाश्यप्रकाशकलक्षणः सम्बन्धः तत्स्वभावत्वात्प्रदीपार्थ योरिख, यद्येवमगृहीतसङ्केतस्यापि शब्दविशेषश्रवणाद्वाच्यार्थप्रतीतिः स्यात् न च भवति, उच्यते, शब्दो हि तापत्तत्प्रकाशनस्वभावो, द यत्तु कस्यचिन्न प्रकाशयति तत्कारणान्तरविरहात्, नहि प्रदीपप्रकाशितमप्यर्थ बहलतिमिरपटलाक्रान्तलोचनः प्रत्येति, तच्च वाच्यार्थ प्रतिपत्तिनिवन्धनक्षयोपशमावरणकर्मपटलमित्यभिप्रायः, आह-सङ्केतकरणादप्यप्रतिपतिप्रसङ्गः, उच्यते, कस्यचिजडमतेरसंजातक्षयोपशमस्य शास्त्रश्रवणादाविष्यत एव, तथाहि-विषमपदार्थान्वाख्याने क्षयोपशमाभावात् क्वचित्सङ्केतोऽपि कर्तुमशक्यः, क्वचित्तु करणमात्रेऽप्युत्तरकालं भावनानुपपत्तिः, अपरस्य तु विशिष्टक्षयोपशमवतः सकुन्म्लेच्छादिध्वनिश्रवणे सति सङ्केतनिरपेक्षस्यापि तदर्थप्रतीतिसंभवात् , कस्यचित्तुल्यकर्मणः सङ्केतकरणादेव कर्ममलपटलापगमात् प्रतिपत्यविरोध इति गाथार्थः ॥१५३८॥दारा॥ तदेवम्-'निहीं'त्यादि // निर्दिष्ट-सामायिक 'यथा वा' येन वा प्रकारेण सकलत्रैलोक्यलक्ष्मीभोगलक्षणेनोद्भुतमेतत् तम्किी , जीवद्रव्य ॐॐॐॐॐ
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy