SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ निर्देशे नयविचारः वृत्ती // 438 // विशेषाव०४ लवनुपयुक्तः, तस्यामनुपयुक्तश्चेत्र नासौ निर्देशो, विरुद्धत्वाद् अश्रावणशन्दवत् , तस्मानिर्देशोऽनुपयुक्तश्च ब्रूते शब्दः, किमित्यत कोट्याचार्य आह-न तद्वस्तु, अत एवोक्तं-"जाणतो अणुवउत्तोत्ति वेति सदो तयमवत्यु"न्ति गाथार्थः // 1535 // सर्वोपसंहारमाह-तम्हा इत्यादि / तस्माद् यद्यनिर्दिश्यते स्त्रीनपुंसकादि स पुरुषस्तदुपयुक्तः तन्मय एव भवति, किं कारणमित्याह-वक्ता पुमान् वचनीयात् | रुयादेरनन्य इतिकृत्या, अतः 'समानलिङ्गोऽसो' उभयसदृशोऽसावित्युक्तं भवतीति गाथार्थः // 1536 // प्रकृतमुपदर्शयन्नाह॥४३८॥ 'सामाई'इत्यादि / सामायिके निर्देश्ये उपयुक्तः सामायिकोपयुक्तः, कः ? इत्यत आह-'जीवो निर्देष्टा, किं ?-सामायिक, भवतीति शेषः, स च सामायिकमित्यभिदधत् स्वकमेव-आत्मानमेव निर्दिशति, तदुपयुक्तत्वाद, एतदुक्तं भवति-तद्वक्तृणि पुंस्त्रीनपुंसकानि सन्ति नपुंसकमेव भवन्ति, किमित्यत आह-'जओस'त्ति यतः सः-पुरुषादिनिर्देष्टा सर्वोऽविशेषेण तेनैव सामायिकेन समानलिङ्गो वर्तते, | तस्य रूढितो नपुंसकत्वादिति गाथार्थः // 1537 / / आह-यदि पुनर्भाववैविध्यादुभयनिर्देशः स्यात्, तथाहि-द्विविधो भावो-विज्ञान| मयः परिणतिमयश्च, भावाभिधायिनश्च शुद्धनयाः, तत्र यदा पुमानुपयुक्तः स्त्रियमाह तदा वक्तुः स्त्रीविज्ञानानन्यत्वात् स्त्रीनिर्देश एव, पुंस्त्वपरिणतिमयत्वाच्च स्वतत्त्वतस्तस्य पुंनिर्देशोऽप्यस्त्विति, उच्यते, भाववैविध्ये सत्यपि विज्ञानमेवोपयोगरूपमिहाधिक्रियते, न | पुरुषपरिणतिः, विज्ञानमयत्वाद्भावनिर्देशस्य / आह-ननु शब्दोऽपि निर्देश एवेति, उच्यते, न, तस्य द्रव्यमात्रत्वाद्, भावग्राहित्वाच शब्दनयस्येति, तत्रैतत्स्यात्-शब्दप्रधान एव शब्दनय इति, उच्यते, न, अर्थापरिज्ञानात्, इह हि शब्दनयः शब्दे पृष्टे नार्थ प्रत्याययति, तद्भावभावित्वाच्छब्दज्ञानस्य, कारणस्य च द्रव्याभिधानात् द्रव्यस्य च भावशून्यत्वात् शब्दनयस्य च भावमात्रग्राहित्वादतो न शब्दमात्रवस्तुप्रधानता युक्तेति। आह-यधुपयुक्तोवक्ता यं यमर्थमाह तदशानिर्देशस्ततो निर्देश्यवशानिर्देश इति संग्रहव्यवहारयोरस्य च को विशेषः१,
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy