________________ विशेषाव कोव्याचार्य वृत्ती // 436 // ***%ARSHAN त्वाद्भवदभिप्रायेण घटवत् , तस्मान्न वस्तुधर्मो वचनं, अपि तु वक्तृधर्म इति गाथार्थः॥१५२७॥ अभ्युपगम्याप्याह-'भावम्मी- निर्देशे नयत्यादि / 'भावम्मिवित्ति भावेऽपि वस्तुधर्मतायां वचनस्य तदर्थप्रतीतिजनकमितिकृत्वा विकल्प्यते 'त' ति तद्वचनं तंति तं विचारः | वाच्यमर्थ सम्बन्धं वा पगासेजा असंबद्धं वेति द्वयी गतिः, यदि संबद्धं चतुर्थसमये भुवनव्यापित्वात्सर्वेषां श्रोतृणां तं प्रकाशयतु, | संबद्धत्वाविशेषा, सिद्धान्तावलम्बित्वेऽपि च नयतैवास्य, न दुर्णयता, आचार्यवचनप्रामाण्यादिति गाथार्थः // 1528 // द्वितीयं // 436 // विकल्पमधिकृत्याह-'निव्वी त्यादि // नापि द्वितीये तद्वस्तु प्रकाशयेद् , विज्ञानादन्यत्वे सत्यसम्बद्धत्वात्प्रदीपवत् , यथाहि-प्रदीपो विज्ञानादन्यत्वे सत्यसम्बद्धानावभासयेदेवमेतदपि, अथ चेद् विज्ञानादन्यत्वे सत्यसम्बद्धमपि भासयेत् ततः सर्व भासयतु, असंब-2 | द्धत्वाविशेषादिति गाथार्थः // 1529 // अत्राह-ननूक्तं वचनमर्थादात्मलामं लभते प्रदीपवत् अतः कथमर्थपरिहारेणेदं वक्तुरेवेति | श्रद्दध्महे ?, उच्यते-'जइवी'त्यादि / 'जइवि निमित्तं सामण्णं' यद्यपि निमित्तं कारणं सामान्यं-तुल्यं, वचनस्येति गम्यते, किं तदित्याह-वचनीयवक्तृबाह्याभ्यन्तरं यथासङ्खयं, समासस्त्विदानी सुखोनेयः, तथाऽपि किमित्याह-वक्ता तथाऽपि प्रधानो वर्चते, स्वामित्वमङ्गीकृत्याभ्यन्तरनिमित्तत्वादिति गाथार्थः // 1630 // 'सद्दों इत्यादि // शब्दयतेऽनेनेति शब्दः, असौ निर्देश भणति'वरनमिच्छति, किंविशिष्टमित्याह-'समानलिङ्गं' निर्देश्यनिर्देष्ट्रसदृशं वाच्यवाचकतुल्यमितियावत् / अनभिमतप्रतिषेधमाह-'विसदृशं' | असमानलिङ्ग 'अवस्तु' तुच्छ, निर्देश भणतीति वर्तते / आद्यपदस्योपपत्तिमाह-'उपयुक्तः तदर्पितान्तःकरणः 'निर्देष्टा' वक्ता 'निर्देश्यात् अभिधेयाद् 'यत:' यस्माद् 'अनन्या' संलुलितः, तेन एतदुक्तं भवति-पुंसः पुमांसं भणतः पुंनिर्देश एव, स्त्रियः स्त्रियमभिदधत्याः स्त्रीनिर्देश एव, नपुंसकस्य नपुंसकमभिदधानस्य नपुंसकनिर्देश एव, उक्तयुक्तेः, एवं तावत्स्वस्थानत इति गाथार्थः //