________________ विशेषाव० कोट्याचार्य वृत्ती // 40 // // 40 // अन्ते केवलमुत्तमजइसामित्तावसाणलाभाओ। एत्थं च मइसुयाई परोक्खमियरं च पञ्चक्खं // 88 // 'ज'इत्यादि / यद्-यस्मात्तुल्ये-समाने एते, कैरित्याह-स्वामिकालकारणविषयपरोक्षत्वैः, तत्र स्वामितुल्यता एकस्वामित्वात् 'जत्थे'त्येवमादिवचनात, कालतुल्यता सर्वकालानुच्छेदात्समानस्थितिकत्वाद्वा, कारणतुल्यतेन्द्रियानिन्द्रियनिमित्तत्वात् क्षयोपशमनिमित्तत्वाद्वा, विषयतुल्यता सर्वद्रव्यादिविषयत्वात् , परोक्षत्वतुल्यता परनिमित्तत्वात् , तथा तद्भावे च-मतिश्रुतभावे च शेषाण्यवध्यादीनि यस्मात् तेणादीए मतिसुयाई इति गाथार्थः॥ 85 // अथ मतिरादौ किमित्यत आह-'मती'त्यादि / मतिः पूर्वमस्येति मतिपूर्व येन कारणेन श्रुतं-श्रुतज्ञानं तेन कारणेनादौ मतिः-मतिज्ञानं,अभ्यधायि भद्रबाहुस्वामिनेति गम्यते एवेति,अथवेन्द्रियानिन्द्रियनिमित्तत्वादुभयमप्यविशिष्टा मतिस्ततश्च 'विसिट्ठो मतिभेदो चेव सुतं'ति, विशिष्ट एव कश्चिन्मतिभेदः श्रुतमभिधीयते, परोपदेशमात्र मेदभागर्हद्वचनकारणश्चेति भावना, येन कारणेनैवं तो मतिसमणंतरं भणिति गाथार्थः // 86 // 'काल इत्यादि / मतिश्रुतसमानकालत्वात् मिथ्यादर्शनपरिग्रहाच तद्विपर्ययसाधा स्वामित्वसाधाव क्वचिल्लाभकालैकत्वाच्च ताभ्यां समनन्तरोऽवधिरिति, ततश्छद्रस्थस्वामिसामान्यात्पुद्गलमात्रविषयसामान्यात् क्षायोपशमिकभावसामान्यात् प्रत्यक्षादिसामान्याच्च मानसमिति गाथार्थः॥ 87 // 'अंते'इत्यादि / अन्ते केवलमुत्तमत्वात् , सर्वशुद्धत्वादित्यर्थः, तथा यतिस्वामिसामान्यात् सर्वावसानलाभाच्च / अत्र ज्ञानपञ्चके मतिश्रुते परोक्षम्, इतरच अवघ्यादित्रयं प्रत्यक्षं, 'तं समासओ दुविहं पन्न, तंजहा-पञ्चक्खं च | परोक्खं चेति वचनादिति गाथार्थः॥ 88 // अथ प्रत्यक्षलक्षणमाह जीवो अक्खो अत्थव्वावणभोयणगुणपिणओ जेणं। तं पर वह नाणं जं पच्चक्खं तयं तिविहं // 89 //