SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ विशेषाव कोव्याचार्य वृत्तौ निर्देशे नयविचार: // 433 // 4 // 433 // HIROEॐॐॐॐॐ खेत्ते कम्मि व काले पुरिसविसेसो व भावओ को सो। खेत्ताइतिगं निग्गमभेउचिय छव्विहो सो // 1540 // 'दुविहंपी'त्यादि / एको गमोऽस्येत्येकगमः तस्य नत्रा प्रतिषेधो, नैकगमश्चासौ नयश्च नैकगमनयः, स नैकगमनयः द्विविधमपि-उभयथापि निर्देश्यनिर्देष्ट्रवशादिच्छति, किं 1, निर्देशमिति प्रक्रमाल्लभ्यते, क्व, लोके लोकोत्तरे च, तत्र लोके निर्देश्यवशात् निर्देशमिच्छति यथा वासवदत्ता तरङ्गवती बेति, अभिधातृवशात्तु मनुनोक्तो ग्रन्थो मनुः अक्षपादेनोक्तो ग्रन्थोऽक्षपाद इति / लोकोत्तरे तु षड्जीवनिका पिण्डैषणा वा, जिनोक्तो मन्थो जिनोक्तिः गणधरेणोक्तो ग्रन्थो गणधरोक्तिरित्येवमादि, तदेवमयं सामायिकमर्थरूपं रूढितो नपुंसकमिति मन्यते, त्रिविधनिर्देष्ट्रवशात्तु पुमासं स्त्रियं नपुंसकं च, तत्परिणामारूढत्वात् , तत्परिणामारूढता च नैकगमत्वात् , एतदुक्तं भवति-यथेह घटाभिधानं घटशब्दोऽभिधीयते, अभिधेयपरिणामत्वात् , एवं देवदत्तशब्दोऽप्युच्यते, अभिघातपरिणामत्वात् , न च विरुद्धं, सिद्धत्वात् , एवं सामायिकमप्यस्याभिधेयवशात्सामायिक, अभिधातृवशात्तु तथा तथेत्युक्तं, तथाहि-करोमि भदन्त ! सामायिकमित्येवं पठति सत्यस्ति व्यपदेशः सूरिरायात इति, अत आह-'दुविहंपि नेगमनयोति / आह-कुतोऽयं वाक्यशेषो लभ्यते, उच्यते, यत आह-निर्दिष्टं वस्त्वङ्गीकृत्य संग्रहव्यवहारौं निर्देशमिच्छतः, निर्देशपर्यायत्वाद्वचनस्य, भावार्थ त्वेत| भाष्ये दर्शयिष्यामः / तथा 'निसगमुज्जुसुओति निर्दिशतीति निर्देशको, वक्तेत्युक्तं भवति, तमङ्गीकृत्य ऋजुसूत्रो निर्देशमिच्छति, वक्तृपर्यायत्वाद्वचनस्य, कथं चैतदिति भाष्य एव वक्ष्याम इति / 'उभयसरिच्छं च सहस्स'चि उभयसदृशं-निर्देश्यनिदेशकसदृश, समानलिङ्गं वस्त्वङ्गीकृत्येत्यर्थः, किं 1, शन्दस्य-शब्दनयस्य, निर्देशप्रवृत्तिरिति गम्यते, उपयुक्तस्य निर्देष्टुनिर्देश्यादभिन्न| त्वाद्, अमिन्नत्वं च तदुपयोगानन्यत्वादिति समुदायार्थः॥१५१३॥ नगमभाष्यमाह-'ज'मित्यादि गाथाः पञ्च व्याख्यातार्थाः।। संग्रह SAXG
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy