________________ विशेषाव० कोट्याचार्य वृत्ती / 399 // AGRAASEX न चेद् भिन्नार्थता युज्यते तत 'इतरथा' अन्यथा एकार्थिकत्वे त्रयाणामपि पुनरेकाथिकाभिधानमनर्थक, यत्पतिज्ञातम् 'इकेकस्स ये| त्यादिना पश्चानेति गाथार्थः॥१३७८॥ सर्वत्राचार्यो भावार्थमाह-'मउल'मित्यादि॥ 'जहे ति यथा येन प्रकारेण 'मउलं फुल्लं'ति | 2 प्रवचनसू| मुकुलफुल्ले अविकसितौ पद्मविशेषौ ते च सङ्कोचविकाशमात्रपर्यायभिन्ने कमलात् , अर्थेन त्वभिन्ने कमलसामान्येनैकत्वात् , नचै त्रार्थकाः तेषां पुनरेकार्थिकविभागो न युक्तः, किं तर्हि ?, दृष्ट एव, तद्यथा-कमलस्यकार्थिकानि पद्मारविन्दपङ्कजसरोजतामरसजलरुहादीनि, | मुकुलस्य तु सङ्कुचितवृन्द कुमलपोण्डाप्रविबुद्धमित्यादि, फुल्लस्य तु विकचं विकसितमुत्फुल्लं बुद्धमुभिन्नमेवमादीनि, अतः सर्व एक्त // 399 // मित्येष दृष्टान्त इति गाथार्थः // 1379 // दार्टान्तिक माह-'अवी'त्यादि / 'तथा' तेन प्रकारेण अविवृतं सच्छब्दवस्तुमूत्रमाख्यायते, संमुग्धाकारत्वात् , कुड्मलादिवत् , तदेव 'बोधकालंमिति बोधकाले व्याख्यानकाले विवृतं सदर्थ उच्यते, प्रकटीभूतत्वाद्विकचादिवत् , तथा किश्चिन्मात्रविभिन्नौ सूत्रार्थों सामान्य प्रवचनं ज्ञेयं उभयतटस्पर्शित्वात् पद्यादिवत् , न चैतेषां प्रवचनसूत्रार्थानां पुनरेकार्थिकाभिधानं न युक्तं, किं तर्हि 1, युक्तमेव, यद्वक्ष्यति 'सुयधम्मेत्येवमादीति गाथार्थः // 1380 // अस्यैवार्थस्य विवेचनार्थमुदाहरणान्तरमाह-'सामन्ने'त्यादि / यथा वेह सामान्यविशेषयोरेकता दृष्टा तथाऽनेकता च दृष्टा, कुत एतत् ? इत्युच्यते-सामान्यस्य विशेषेभ्योऽन्यत्वाभावात् विशेषमात्रस्य चाभावात् , एवं विशेषाणामपि सामान्यान्यत्वाभावात् सामान्यमात्रस्य चाभावात् , कथमेतदित्याह-व्यवस्थया', विवक्षयेत्यर्थः, तथा यथा चैतत्सामान्यविशेषोभयमर्थाभिधानादवरुध्यते-अर्थशब्देनोच्यते, उभयपरिणामसंनिधानरूपत्वादर्थस्य, यथा च ते सामान्यविशेषार्थाः 'वीमुंति प्रत्येकं 2 बहुपर्याया दृष्टास्तद्यथा-सामान्यं सत्ता भाव इति, तथा विशेषो भेदः पर्याय इति, द्रव्यं वस्त्वर्थ इति गाथार्थः // 1381 // एवं किमित्यत आह-'एव'मित्यादि / / एवं सूत्रार्थयोः सामान्यविशेष CONKARACHECKNOCCAS